शब्दकल्पद्रुमः
वरट्टिका || स्त्री कुसुम्भबीजम् । तत्पर्य्यायः । वरटा २ । अस्या गुणाः । मधुरत्वम् । स्निग्ध- त्वम् । रक्तपित्तकफापहत्वम् । कषायत्वम् । शीतलत्वम् । गुरुत्वम् । अवृष्यत्वम् । अनिला- पहत्वञ्च । इति भावप्रकाशः ॥