शब्दकल्पद्रुमः
वरटी || स्त्री (वरट + जातौ ङीष् ।) हंसी । इति मेदिनी । टे, ५१ ॥ गन्धोली । इति त्रिकाण्ड- शेषः ॥ (यथा, सुश्रुते कल्पस्थाने ३ अध्याये । “सूक्ष्मतुण्डोच्चिटिङ्गवरटीशत पदीशूकवल- भिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ॥”)