संस्कृत-शब्दकोशः

वरण्डालु वरतिक्तिका

वरतिक्त

वाचस्पत्यम्

वरतिक्त ||‍ पु० वरः श्रेष्ठस्तिक्तो रसो यस्य । कुटजवृक्षे राजनि० । २ पाठायाम् (आकनादि) स्त्री राजनि० स्वार्थे क तत्रैव ।


शब्दकल्पद्रुमः

वरतिक्तः || पुं, (वरः श्रेष्ठस्तिक्तस्तिक्तरसो यस्य ।)
कुटजवृक्षः । इति राजनिर्घण्टः ॥ (पर्प्पटकः । तत्पर्य्यायो यथा, —
“पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः । कथितः पांशुपर्य्यायस्तथाकवचनामकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: