संस्कृत-शब्दकोशः

वरत्वच वरदा

वरद

वाचस्पत्यम्

वरद ||‍ त्रि० वरं ददाति दा—क । १ अभीष्टदातरि अमरः । २ प्रसन्ने च मेदि० ३ तच्चिह्नसूचके हस्तादिविन्यासरूपे मुद्राभेदे न० “अभयं वरदञ्चैव” श्यामाध्यानम् । ४ कन्यायाम् स्त्री मेदि० । ५ अश्वगन्धायाम् स्त्री भावप्र० ६ आदित्यभक्तायां स्त्री राजनि० ७ दुर्गायाञ्च स्त्री ।


शब्दकल्पद्रुमः

वरदः || त्रि (वरं ददातीति । दा + “आतोऽनुप- सर्गेति ।” ३ । २ । ३ । इति कः ।)
अभीष्ट- दाता । तत्पर्य्यायः । समर्द्धकः २ । इत्यमरः । ३ । १ । ७ ॥ समर्द्धः ३ वाञ्छितार्थदः ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २ । २१७ । “वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् ॥”)
प्रसन्नः । इति मेदिनी । दे, ३७ ॥



Correction: