शब्दकल्पद्रुमः
वरदा || स्त्री (वरद + टाप् ।)
कन्या । इति मेदिनी । दे, ३७ ॥ आदित्यभक्ता । इति राज- निर्घण्टः ॥ (पर्य्यायो यथा, —
“सुवर्च्चला सूर्य्यभक्ता वरदा वदरापि च । सूर्य्यावर्त्ता रविप्रीता परा ब्रह्मसुवर्च्चला ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अश्वगन्धा । इति भावप्रकाशः ॥ वरदात्री च । (यथा, भागवते । ३ । १६ । २२ । “ध्नर्म्मस्य ते भगवतस्त्रियुगत्रिभिः स्वैः पद्भिश्चराचरमिदं द्बिजदेवतार्थम् । नूनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदया तनुवानिरस्य ॥”)