वाचस्पत्यम्
वरदाचतुर्थी || स्त्री माघशुक्लचतुर्थ्याम् । तामधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता” ति० त० भविष्यपु० ।
शब्दकल्पद्रुमः
वरदाचतुर्थी || स्त्री (वरदाख्या चतुर्थी ।)
माघ- शुक्लचतुर्थी । तस्यां गौरी पूज्या । यथा । भवि- ष्योत्तरे माघशुक्लपक्षमधिकृत्य । “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता । सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥” इति तिथ्यादितत्त्वम् ॥