शब्दकल्पद्रुमः
वराङ्गना || स्त्री (वरा श्रेष्ठा अङ्गना ।) अति- प्रशस्ताङ्गयुक्ता स्त्री । यथा, — “शिरः सपुष्पं चरणौ सुपूजितौ वराङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्व्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥” इति लक्ष्मीचरित्रम् ॥