शब्दकल्पद्रुमः
वराङ्गरूपोपेतः || त्रि (अङ्गानां रूपाणि अङ्ग- रूपाणि । वराणि अङ्गरूपाणि तैरुपेतः ।) श्रेष्ठरूपयुक्तः । सुन्दर इत्यर्थः । तत्पर्य्यायः । सिंहसंहननः १ । इत्यमरः ॥