वाचस्पत्यम्
वराङ्गिन् || पु० वराङ्गमस्त्यस्या इनि । १ अम्लवेतसे रत्नमा० । २ श्रेष्ठाङ्गयुते त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वराङ्गी || [न्] पुं, (वराङ्गमस्त्यस्येति । इनिः ।)
अम्लवेतसः । वराङ्गञ्चाम्लवेतसं इति वा पाठः । इति रत्नमाला ॥ श्रेष्ठाङ्गयुक्ते, त्रि ॥