शब्दकल्पद्रुमः
वराटिका || स्त्री (वराट् + स्वार्थे कन् । टाप् । अत इत्वञ्च ।)
कपर्द्दकः । इत्यमरटीकायां भरतः राजनिर्घण्टश्च ॥ (यथा, नैषधे । २ । ८८ । “बहुकम्बुमणिर्व्वराटिका गणनाटत्करकर्क्कटोत्करः ॥”)
तुच्छवाचिका च । यथा, —
“प्रयागे मूत्र्यते येन तस्य गङ्गा वराटिका ॥” इत्युद्भटः ॥