वाचस्पत्यम्
वराण || पु० वृ—आनन् । १ इन्द्रे त्रिका० । २ वरुणवृक्षे शब्दर०
शब्दकल्पद्रुमः
वराणः || पुं, (व्रियते इति । वृ + युच् । पृषो- दरात् दीर्घः ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ वरुणवृक्षः । इति शब्दरत्नावली ॥