संस्कृत-शब्दकोशः

वराशि वरासि

वरासन

वाचस्पत्यम्

वरासन ||‍ न० वराय वरणीयायास्यते क्षिप्यते अस—ल्युट् । १ जवापुष्पे शब्दमा० । कर्म० । २ उत्तमे आसने न० । वरं पतिमस्यति अस—ल्यु । ३ षिड्गे जारे पु० । वरान् श्रेष्ठानपि अस्यति दूरीकरोति ल्यु । ४ द्वारपाले च पु० विश्वः ।


शब्दकल्पद्रुमः

वरासनं || क्ली (वरायै दुर्गायै अस्यते क्षिप्यते दीयते इति यावत् । अस् + ल्युट् ।)
ओड्र- पुष्पम् । इति शब्दमाला ॥ (वरमासनमिति ।)
उत्तमासनञ्च ॥


शब्दकल्पद्रुमः

वरासनः || पुं, (वरां स्वीयां नारीं अस्यति त्यज- तीति । अस् + ल्युः ।)
षिड्गः । (वरानपि जनान् अस्यति दूरीकरोतीति ।)
द्वारपालः । इति विश्वः ॥



Correction: