वाचस्पत्यम्
वरिष्ठ || त्रि० अतिशयेन उरुः इष्ठन् वरादेशः । १ उरुतमे २ तित्तिरिविहगे पुंस्त्री० स्त्रियां ङीष् ३ नागरङ्गवृक्षे पु० र जनि० । ४ ताम्रे न० अमरः । ५ मरिचे न० मेदि० ६ वत्से अजयः । ७ आदित्यभक्तायां स्त्री राजनि० ।
शब्दकल्पद्रुमः
वरिष्ठं || क्ली (अतिशयेन वरम् । वर + इष्ठन् ।)
ताम्रम् । इत्यमरः । ३ । २ । १११ ॥ (यथा, —
“रक्तं वरिष्टं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥)
मरिचम् । इति मेदिनी । ठे, १५ ॥
शब्दकल्पद्रुमः
वरिष्ठः || त्रि (अयमेषामतिशयेन वर उरुर्वा अतिशायन इष्ठन् । प्रियस्थिरेति वरादेशः ।)
इति व्याकरणम् ॥ बरतमः । (यथा, भागवते । १ । १० । १ । “हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्म्मभृतां वरिष्ठः ॥”)
उरुतमः । इति मेदिनी । ठे, १५ ॥ (यथा, ऋग्वेदे । ४ । ५६ । १ । “यत्सीं वरिष्ठे बृहती विमिण्वन्रु वद्धोक्षापप्रथानेभिरेवैः ॥”)
वत्सः । इत्यजयः ॥
शब्दकल्पद्रुमः
वरिष्ठः || पुं, (वर + इष्ठन् ।)
तित्तिरिपक्षी । इति मेदिनी । ठे, १५ ॥ नारङ्गवृक्षः । इति राज- निर्घण्टः ॥ (चाक्षुषमनुपुत्त्रः । यथा, महा- भारते । १३ । १८ । २० । “वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ॥” धर्म्मसावर्णिमन्वन्तरस्य ऋषिविशेषः । यथा, मार्कण्डेये । ९४ । १९ । “हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः । निश्चरश्चानघश्चैव रिष्ठिश्चान्यो महामुनिः । सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥” दैत्यविशेषः । तथा, हरिवशे । २३२ । १३ । “वरिष्ठश्च गविष्ठश्च भूतलोन्मथनो विभुः । सुप्रसादः किरीटी च सूचीवक्त्वो महासुरः ॥”)