संस्कृत-शब्दकोशः

वरी वरीयान्

वरीयस्

वाचस्पत्यम्

वरीयस् ||‍ त्रि० अतिशयेन उरुः श्रेष्ठः ईयञ्चत् वरादेशः । १ उरुतमे विष्कन्धादिषु मध्ये २ अष्टादशे योगभेदे पु० ज्यो० त० ।


शब्दकल्पद्रुमः

वरीयान् || [स्] त्रि, (अयमनयोरतिशयेन ऊरु- र्वरो वा । ईयसुन् । प्रियस्थिरेति वरादेशः ।)
श्रेष्ठः । (यथा, भागवते । २ । १ । १ । “वरीयानेष ते प्रश्नः कृतो लोकहितो नृप ! ॥”)
वरिष्ठः । अतियुवा । इति मेदिनी । ठे, १५ ॥



Correction: