शब्दकल्पद्रुमः
वरीयान् || पुं, विष्कम्भादिसप्तविंशतियोगान्तर्गता- ष्टादशयोगः । तत्र जातफलम् । “दाता दयालुः सुतरां सुवेषः सत्कर्म्मकर्त्ता मधुरस्वभावः । नरो बलीयान् धनवान् जनाढ्यो योगो वरीयान् यदि जन्मकाले ॥” इति कोष्ठीप्रदीपः ॥ (पुलहस्य पुत्त्रः । इति भागवते । ४ । १ । ३४ ॥)