वाचस्पत्यम्
वरूथ || न० वृ—ऊथन् । तनुत्राणे हेमच० २ चर्मणि मेदि० । ३ रथगुप्तिस्थाने परप्रहाररक्षार्थमावृते स्थाने पु० अमरः ।
शब्दकल्पद्रुमः
वरूथं || क्ली (व्रियते शरीरमनेनेति । वृ परणे + “जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति ऊथन् ।)
तनुत्राणम् । इति हेमचन्द्रः ॥ चर्म्म । इति मेदिनी । थे, २१ ॥ तत्र पवर्गीयबकारादौ गणितोऽयं शब्दः ॥ (गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, ऋग्वेदे । १ । ५८ । ९ । “भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म्म ॥” सैन्यम् । यथा, भागवते । ९ । १० । २० । “तेऽनीकपा रघुपतेरभिपत्य सर्व्वे- द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः । जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः सीताभिमर्षहतमङ्गलरावणेशान् ॥”)
शब्दकल्पद्रुमः
वरूथः || पुं, (व्रियते रथोऽनेनेति । वृञ् वरणे + “जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति ऊथन् ।)
परप्रहरणाभिघातरक्षार्थं रथस्य सन्नाहवद्यदावरणकादि द्रव्यं तत् । तत्पर्य्यायः । रथगुप्तिः २ । इत्यमरभरतौ । २ । ८ । ५७ ॥ रथसंवृतिः ३ । इति जटाधरः ॥ (यथा, रामायणे । ६ । ५७ । २६ । “उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ॥” ग्रामविशेषः । यथा, तत्रैव । २ । ७१ । ११ । “तोरणं दक्षिणार्द्धेन जम्बूप्रस्थं समागमत् । वरूथञ्च ययौ सम्यक् ग्रामं दशरथात्मजः ॥”)