संस्कृत-शब्दकोशः

वरोल वर्कराट

वर्कर

वाचस्पत्यम्

वर्कर ||‍ पु० वृक—अरन् । १ तरुणपशौ अमरः २ मेषशावके भ- रतः ३ छागमात्रे पुंस्त्री० स्त्रियां ङीष् ४ परिहासे मेदि०


शब्दकल्पद्रुमः

वर्करः || पुं, (वृक्यते गृह्यते इति । वृक आदाने + बहुलवचनात् अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।)
युवपशुः । इत्यमरः । २ । १० । २३ ॥ मेषशावकः । इति तट्टीकायां भरतः ॥ परि- हासः । (यथा, अमरुशतके । ७ । “कान्तः केलिरुचिर्युवा सहृदयस्तादृक् पतिः कातरे किन्नो वर्करकर्करैः प्रियशतैराक्रम्य विक्री- यते ॥”)
छागः । इति मेदिनी । रे, २१० ॥



Correction: