संस्कृत-शब्दकोशः

वर्जित वर्ण

वर्ज्य

शब्दकल्पद्रुमः

वर्ज्ज्यः || त्रि (वृज् + ण्यत् ।)
वर्ज्जनीयः । यथा, —
“अतः प्ररं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् । भोज्यमन्नं पर्य्युषितं स्नेहाक्तं चिरसंस्थितम् ॥ अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः । शशकः कच्छपो गोधा सेधा मत्स्योऽथ शल्लकः ॥ भक्ष्या ह्येते सदा वर्ज्ज्यौ ग्रामशूकरकुक्कुटौ । पितृदेवादिशेषञ्च श्राद्धे ब्राह्मणकाम्यया । प्रोक्षितञ्चौषधार्थञ्च खादन् मांसंन दोषभाक् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥



Correction: