वाचस्पत्यम्
वर्ण || न० वर्ण—अच् । १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे ५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे १० अङ्गरागे पु० हेमच० । ११ गजचित्रकम्बले पु० अमरः १२ यशसि १३ गुणे १४ स्तुतौ पु० मेदि० । भेद रूपे अक्षरे पु० न० मेदि० । १५ ब्राह्मणादिजातौ पु० अमरः । “चातुर्वर्ण्यं मया सृष्टम्” गीता । तत्र विप्रादिवर्णानां सृष्टिः तद्धर्माश्च मनुना उक्ता यथा “लोकानान्तु विवृद्ध्यर्थं सुखबाहूरूपादतः । ब्राह्मणं क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” । “मुस्ववाहूरूपज्जानां पृथक् कर्माण्यकल्पयत् । अध्यापनमध्ययनं यजनं याजनस्तथा” “ब्राह्मणोऽमा मुखमासीद्बाहूराजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत” यजु० ३१ ११ तेषां ब्राह्मणस्य श्रैष्ठ्ये कारणं मनुनोक्तं यथा “ऊर्ध्यनाभेर्मेध्यतरः पुरुषः परिकीर्त्तितः । तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा । उत्तमा- ङ्गोद्भवात् ज्यैष्ट्याद् ब्रह्मणश्चैव धारणात् । सर्वस्यै- वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः” वर्णधर्माश्च जाति- धर्मशब्दे ३१०५ पृ० दृश्याः । तत्र अक्षररूपवर्णोत्पत्तिक्रमः तत्भेदाश्च शब्दार्थरत्ने- ऽस्माभिरुक्ता यथा “अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते । चेतनेन ज्ञाता- र्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधारस्थितमनलं चालयति तच्चालितश्चानलः तत्- स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभि- चीयते । ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्देश संयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते एत- द्वयस्य सृक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म- दोयश्रुतिगीचरता । ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिद- स्याकभवि समधिगम्या । तती मुखपर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन परा- वृत्य च मुखविवरे कण्ठादिषु तत्तदष्टस्थानेषु स्वाभिघाते- नोत्पादितः शब्दो वैस्वरीत्युच्यते । तदुक्तं शिक्षायाम् “आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्णो मूर्घ्न्यमिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयते तेषां विभागः पञ्चधा मतः । स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः” इति । संस्काररूपेण स्वगता- नर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विवयीकृत्येर्थः । तथा । “प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति । स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिवन्धिनी । केवलं बुद्धुव्रपादा- ना क्रमरूपानुपातिनी । प्राणवृत्तिमनुक्रम्य मध्यमा वाक् प्रवर्त्तते । अविभागा तु पश्यन्ती सर्वतः संहृत- क्रमा । स्वरूपज्योतिरेवातः परा वागनपायिनीति” भारतेऽप्युक्तम् । अत्र प्राणापानान्तरे इत्यधिकरणनिदे- शादाकाशस्थायिता नित्यमित्यभिधानात् यावत्प्रलय- पर्य्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युप- गमात् । न तु क्षणिकता मध्ये उत्पत्तिविनाशकल्पने गोरवात् शब्दार्थयोर्नित्यसम्बन्धस्वीकारादनित्येन शब्देन नित्यार्थमम्बन्धस्वीकारेऽयुक्तत्वापत्तेश्च । नित्यत्वेऽपि तेषां व्यञ्जकसद्भावाभावाभ्यां प्रत्ययापत्ययावित्यन्यत्र विस्तरः । स्थानेषु कण्ठताल्वाद्यष्टस्थानेषु वायौ मूलाधारस्थे विकृते विवक्षाप्रेरितमनोनियुक्ताम्बिसंक्षोभाच्चलिते इत्यर्थः । कृतवर्णपरिग्रहा वर्णभावापन्ना, तच्च स्थाने- ष्विति व्यवहितेनान्वितम् । प्राणवृत्तिनिबन्धिनीत्यनेन व्राणवृत्तेर्वायोस्तत्तद्देशपर्य्यन्तगमनमभिहितं, केबलमित्य- नेन कण्ठताल्वादिस्थानानपेक्षाभिहिता । बुद्ध्युपा- दानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेर्हृदयस्थत्वात् । सर्वतः सहृतक्रमेत्यनेन हृदयस्थानगमनानपेक्षाभि- हिता । अविभागेत्यनेन मध्यमाया विभागरूपविशे- षस्य कर्णपिधानेनाप्यवगमात् पश्यन्त्यास्तु तद्व्युदासः । अनपायिनी स्वस्थानादचलिता प्राणापानान्तरे मूला- धारस्थितेति यावत् । अतो यथाप्रदर्शितं परादीनां विभागं प्रतिपादयतीदं महाभारतीयमलं विस्तरेण ।” ||अभिघातस्थानानि चाष्टविधानि सामान्यतो वेदित- व्यानि “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु चेति” शिक्षा कृदुक्तेः । वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षा- यामभिहिता वेदितव्याः । यथा “चतुःषष्टिस्त्रिष- ष्टिवा वर्णाः सम्भवतो मताः । स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वा रश्च यमाः स्मृताः । अनुस्वारो विसर्गश्च + कँओपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव वेति” । अस्यार्थः अ इ उ ऋ इत्येषां ह्रस्वदीर्घप्लुताः कालकृता द्वादश भेदाः ऌकारस्यैकौ भेदोऽस्य दीर्घाभावात् प्लुतस्तूत्तरं प्रतिपादितः । एवां चतुर्णां ह्रस्वाभावात् दीघप्लुतभेदेनाष्टौ भेदाः इत्येकविंशतिः स्वराः । स्पर्शाः कादयो मावसानाः पञ्चविंशतिः । यादयो हान्ता अष्टौ । यमाः वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये पूर्बसदृशाः प्रातिशाख्ये प्रसिद्धाश्चत्वारो वर्णाः । यथा पलिक्ँक्री चख्ँग्नतुः । अग्ँग्निः । पतिघ्ँध्नी- त्यादौ । अनुस्वारादयश्चत्वारः स्पष्टाः । + कँपौ चापि परामितावित्युक्तिस्तु फखयोः परवोरेकविधः पफयो परयोरन्यविधः कण्ठ्योष्ठ्यत्वभेदादिति ज्ञाप- नाय । दुःस्पृष्टः ईषत्स्पृष्टः ऌकारः । “अचोऽस्पृष्टा षणस्त्वीषन्नेमस्पृष्टाः शलस्तथा” इत्यनेन प्रतिपादितस्य यण्पदाभिधेययवरलो धर्मस्य ईषत्स्पृष्टत्वस्य ऌकारे कथ- नात् ऌकारस्य स्वरत्वयण्त्वोभयधर्मसमावेशात् द्विवि- धता इति त्रिषष्टिर्भेदाः । ऌकारस्य प्लुतत्वे चतुः- षष्टिर्भेदाः । एवं वर्णानां सामान्यतो भेदे वोघिते एतेषामुत्पत्तिस्थानानि बाह्याभ्यन्तरप्रयत्नमेदान प्रद- र्श्यन्ते । तत्र स्थानानि “हकारं पञ्चमैर्युक्तमन्त- स्थाभिश्च संयुतम् । औरस्यन्तं विजानीयात् कण्ठ्य- माहुरसंयुतम् । कण्ठ्यावहाविचुयशास्तालव्या ओष्ठ- जावुपू । स्युर्मूर्द्धन्था ऋटुरषा दन्त्या ऌतुलसाः स्मृताः । जिह्वामूले तु कुः प्रोक्तः दन्त्यौष्ट्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठ्योष्ठजौ स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोस्तद्वदिति” । “अनुस्वारयमानाञ्च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थान० भागिन इति शिक्षाकृदुक्तानि बेदितव्यानि । यद्यपि सर्वेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽप्यपेक्षित इति तन्मा- त्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम् । “जिह्वमूले तु कुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठ्यत्वव्यवहारस्तु कण्टशब्दस्य कण्टमूलपरतया भाक्त एव तवर्गस्य दत्तमूलीयत्वेन दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तदनुच्चारापत्तेः । जिह्वामूलीयस्य आश्र- यस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूलस्थान- त्वौचित्यात् । दन्त्योष्ठ्योव इत्यादावुभयोरेव प्रत्येक वकारस्थानत्वं नं तु समुदितयोः तथा सति दन्तोष्ठ्य इत्येव परिशिक्ष्येत । अतस्तस्य दन्त्वौष्ठ्योमयकार्य्यनि- मित्तता एवमग्रेपि द्रष्टव्यम् । यमानां प्रातिशाख्य- प्रसिद्धानां काँदिचतुष्टयानां पूर्वोदितानां यम्संज्ञा- नोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते । तत्रा च यमेत्युपलक्षणम् । “अमोऽनुनासिका नह्रौ” इत्युक्त्य । हकाररकारभिन्नानाममानां नासिका स्थानत्वाभिधानात् नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या ना- सिकास्थानत्वप्राप्तेश्च । तत्र नह्राविति पुनः हकार- रकारयोः पर्य्युदासः । “मुखनासिकावचनोऽनुनासिकाः इति पा० सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्थानत्वम् । अयोगवाहा विसर्गा जिह्वा- मूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान- भागित्वम । आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्ते तत्स्यानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागि- त्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया । पफयोः परयोरोष्ठोच्चार्य्यमाणयोराश्रयत्वेनोप ध्मानीयता । उश्च पश्च आध्मायेते अनेन स्थाननेति व्युत्पत्तेः उपाध्मान शब्द ओषवचनः । तत्स्थानयोग्यत्वादन्वितनामता चावधेया । अतएव “कौमुद्यां जिह्वामूलीयस्य जिह्वा- मूलमुपाध्मानीयस्योष्ठावित्युक्तम् । यद्यपि सर्वेषां वर्णा- नामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जक- ताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण भाक्त एव । तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्- पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारः समुचित । वर्णाभिव्यक्त्यनन्तरभाविनस्त आन्तरतम्य- परीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यवहिर्देशाव- च्छिन्नकार्य्यस्य जनका बाह्या यत्ना गुणशब्देनोच्यन्ते इत्यादिकं शेखरादौ स्पष्टम् । आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन इति विवेकः । तथाहि नाभिदेशात् प्तयत्नप्रेरितः प्राणवायुरूर्द्ध्वमागच्छन्नुरःप्रमृतीनि स्थानान्याहन्ति उत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णो त्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा स्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत्स्पृष्टता समीपावस्थाने संवृतता दूरावस्थाने विवृतता इत्येव- माभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः । अतएव इच- वर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये तालुस्थानेन सह जिह्वाग्रादीनां सम्यक् स्पर्शः, यका- रोच्चारणे तु ईषत् स्पर्शः शकारेकारोच्चारणे दूरमनो- पावस्थानमिति । एतेषां चाभ्यन्तरत्वं ओष्ठप्रभृति- काकलीजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारि- त्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम् । विवारसंवारौ तु गलतिलस्य विकाशाविकाशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नावेव तयोः समीप- दूरावस्थानात्मकत्वादिति विवेक्तव्यम् । ते च आभ्य- न्तराः प्रयत्नाः केषां वर्णानाङ्के इत्येतत्तावदधीयते । कादिमावसानानां स्पृष्टता अतएव तेषां सक्यक्स्पर्श- वत्त्वेन स्पर्शपदवाच्यता । यणः ईषत् स्पृष्टता । तेषाञ्च स्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि शसा- दीनां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थवर्णत्वम् अन्तः- स्थाभिश्च संयुतमित्युक्तेरन्तःस्थाशब्दः आदन्तः । शषसहानां अचाञ्च विवृतता । शसहानाञ्च उष्मशब्दाभिधेयवायु- प्रधानत्वात् ऊष्मशब्दवाच्यता । अचाञ्च स्वयं राजमान- त्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता । “अचः स्वयं विराजन्ते” इत्युक्तेः “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा- स्त्रयः । ह्रस्वो दीर्घः प्लुतश्चेति कालतो नियमा अचि- त्युक्तेश्च । तत्र ह्रस्वस्य संवृतता । “संवृतं त्वेकमात्रं स्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव । तत्र मूलं “अचो- स्पृष्टा यणस्त्वोषन् नेमस्पृष्टाः शलस्तथा । शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव बोध्यम् । अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यवरणस्त्वीषत् स्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची । शलः शषसहा नेम- स्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः । “स्वराणामुश- णाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात् । एते च स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः बाह्यप्रयत्नास्तु आन्तरतम्यपरीक्षायासेवोपयोगिन इति “तुल्यास्यप्रयत्नं सवणमिति” पा० सूत्रभाष्यादौ स्पष्टम् । तेन तकारस्थाने विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटका- रादेशः “स्थानेऽन्तरतमः” इति पा० सूत्रभाष्ययोः स्पष्टम् । बहुसमानघर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् ।” “बाह्याःप्रयत्नाश्चाष्टविधाः काकलकाधःस्थलगलबिलसङ्कोच- विकाशश्वासोत्पत्तिध्वनिविशेषघोषाल्पघोषप्राणाल्पत्वमहत्त्व रूपकार्य्यकरा यथाक्रमं विवारसवारश्वासनादघोषाल्प- घोषाल्पप्राणमहाप्राणनामानो मन्तव्याः । प्रयत्नप्रेरितो वायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलविलविकाशादीनपि सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहि- र्देशकार्य्यकरत्वात् चैते बाह्या इति । ते च “स्वयां यमाः खयः + कँपौ विसर्गः शर एव च । एते श्वासा- नुप्रदाना अघोषाश्च विवृण्वते । कण्ठमन्ये तु घोषाः स्युः संवारा नादभागिनः । अयुग्मा वर्गयमगायणश्चा- ल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्तदिशावसेयाः । खयां स्थाने जाता ये यमाः पूर्वोक्ताः प्रातिशाख्ये प्रसिद्धाः । खयः, शरः शषसहाः । एते श्वासानुप्रदाना अघोषाः कण्ठं विवृण्वते च । अन्ये एतद्भिञ्चाः सर्वे वर्णा घोषसंवारनादबाह्यप्रयत्नवन्तः । वर्गीयप्रथमतृतीय- पञ्चमवर्णाः प्रथमतृतीयवर्गजातयमाश्च पूर्वोक्ताः यणश्च एते अल्पपाणास्तद्भिन्नाः सर्वे महाप्राणा इति विवेकः ।” “तथा उदात्तानुदात्तस्वरितरूपास्त्रिविधाः स्वरा ह्रस्वदीर्घप्लुतकालभेदाश्च स्वराणां विशेषाधाने हेतवो वेदितव्याः । तथा हि “विभागः पञ्चधा मतः” इत्युपक्रम्य “स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः” इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेयबाह्यप्रयत्नान् वर्णविमाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षाकृता उदात्तश्चानुदात्तश्चेत्यादिना अच्येव स्वरकालयोर्विभा- जकताऽभिहिता । तत्र ताल्वादिषु स्थानेषूर्द्धभागे निष्पन्नोजुदात्तः नीचैरुच्चार्य्यमाणोऽनुदात्तः प्रथममर्द्ध- मुदात्ततयोच्चार्य्य उत्तरार्द्धमनुदात्ततयोचार्य्यमाणः स्व- रितः इति “उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः तस्य आदित उदात्तमर्द्धह्रस्वमिति” पाणिनि- सूत्रजातेभ्यः । तदेवं परस्परविभाजकस्थानबाह्या- भ्यन्तरप्रयत्नस्वरकालकृतविशेषात् वर्णानां परस्परविशेष- रूपता । सर्वे हि वर्णाः पुरस्कृत्यैव किञ्चिद्विशेषं विशेषताभाजो भवन्तीति ।” विवाहोपयोगिनि नक्षत्रविशेषकृते १६ वर्णकूटे उपयम शब्दे वर्णकूटोक्तौ १२४९ पृ० दृश्यम् ।
वाचस्पत्यम्
वर्ण्ण || वर्णने चु० उभ० सक० सेट् । वर्णयति ते अववर्णत् त ।
वाचस्पत्यम्
वर्ण्ण || स्तुतौ विस्तारे शुक्लादिवर्णकरणे उद्योगे दीपने च अदु० चु० उभ० सक० सेट । वर्णयति ते अववर्णत् त ।
शब्दकल्पद्रुमः
वर्ण || क वर्णे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, वर्णयति । अयं कश्चिन्न मन्यते । वर्णः शुक्लादिक्रिया । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वर्णं || क्ली (वर्णयतीति । वर्ण + अच् ।)
कुङ्कुमम् । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
वर्ण || त् क स्तुतिविस्तारशुक्लाद्युद्युक्तिदीपने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०- दीपने अक०-सेट् ।)
वर्णयति वर्णापयति कविः स्तौतीत्यर्थः । वर्णयति तन्तुं विस्तारयतीत्यर्थः । वर्णयति प्रतिमां शुक्लादिवर्णां करोतीत्यर्थः । वर्णयति उद्युङ्क्ते दीप्यते वेत्यर्थः । शुक्लाद्य- त्युक्तिदीपने इत्यपि पाठः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वर्णः || पुं, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य- निस्वपिभ्यो नित् ।” उणा० ३ । १० । इति नः । स च नित् ।)
जातिः । सा च ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा । यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्य शरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतो ब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याः पादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माः शास्त्रेषु निरूपिताः सन्ति । तत्र ब्राह्मणधर्म्मा उच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका- स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ । क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । प्रजानां रक्षणं जीविका । २ । वैश्यस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रो जीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद- ञ्चेति । ३ । शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषा धर्म्मो जीविका च । ४ । ब्राह्मणा आश्रम- चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरं नियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग- वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ । साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वा स्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ । पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादि भक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थ उच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च विभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल- मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥ ४ ॥ क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् । शूद्रस्यैक एव गृहाश्रमः । ईश्वराराधनन्तु सर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः । तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते । शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः । सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्य उच्यते । इति पुराणार्थप्रकाशः ॥ * ॥
अपि च । ब्रह्मोवाच । “सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः । विप्राद्यैः स्वेन धर्म्मेण तद्धर्म्मं व्यास वै शृणु ॥ यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः । अध्यापनं चाध्ययनं षट् कर्म्माणि द्विजोत्तमे ॥ दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः । दण्डस्तथा क्षत्त्रियस्य कृषिर्व्वैश्यस्य शस्यते ॥ शुश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् । कारुकर्म्मस्तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥ भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥ सर्व्वेषामाश्रमाणान्तु द्बैविध्यन्तु चतुर्व्विधम् । ब्रह्मचार्य्युपकुर्व्वाणो नैष्टिको ब्रह्मतत्परः ॥ योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्व्वाणको ज्ञेयो नैष्टिको मरणान्तिकः ॥ अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्च्चनम् । गृहस्थस्य समासेन धर्म्मोऽयं द्बिजसत्तमाः ॥ उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥ ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधना- दिकम् । एकाकी यस्तु विचरेत् उदासीनः स मौक्षिकः ॥ भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्म्मोऽयं वनवासिनः ॥ तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ तपसाकर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः । ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यक् च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥ भैक्षं श्रुतञ्च मौनित्वं तपोध्याने विशेषतः । सम्यक् च ज्ञानषैराग्यं धर्म्मोऽयं भिक्षुके मतः ॥ ज्ञानसन्न्यासिनः केचित् वेदसन्न्यासिनोऽपरे । धर्म्मसन्न्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥ योगी च त्रिविध्ये ज्ञेयो भौतिको मोक्ष एव च । तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिसमाश्रितः ॥ प्रयमा भावना पूर्ब्बे मोक्षे त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ धर्म्मात् संजायते मोक्षः अर्थात् कामोऽभि- जायते । प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म्म वैदिकम् ॥ ज्ञानपूर्ब्बं निवृत्तं स्यात् प्रवृत्तञ्चाग्निदेवकृत् । क्षमा दमो दया दानमलोभोऽभ्यास एव च ॥ आर्जवञ्चानसूया च तीर्थानुसरणं तथा । सत्यं सन्तोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥ देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः । अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥ एत आश्रमिका धर्म्माश्चातुर्व्वर्ण्यं ब्रवीम्यतः । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥ स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् । गान्धर्व्व शूद्रजातीनां परिचारे च वर्त्तताम् ॥” इति गारुडे ४९ अध्यायः ॥ * ॥
अन्यच्च । “ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म्म वसुन्धरे ! । यानि कर्म्माणि कुर्व्वीत मम भक्तिपरायणः ॥ षट्कर्म्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः । लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः ॥ मम कर्म्मसमायुक्तः पैशुन्येन विवज्जितः । शास्त्रानुसारी मध्यम्थो न वृद्धः शिशुचेतनः ॥ एतदवै ब्राह्मणः कर्म्म एकचित्तो जितेन्द्रियः । इष्टापूर्त्तञ्च कुरुते स मामेति वसुन्धरे ! ॥ क्षत्त्रियाणां प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् । यानि कर्म्माणि कुर्व्वन्ति क्षत्त्रिया मध्यसंस्थिताः ॥ दानशूरश्च कर्म्मज्ञो यज्ञेषु कुशलः शुचिः । मम कर्म्मसु मेधावी अहङ्कारविवर्ज्जितः ॥ अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः । गुरुविद्यानसूयात्मा गुह्यकर्म्मेष्वतन्द्रितः ॥ अभ्युत्थानादिकुशलः पैशुन्येन विवर्ज्जितः । एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्त्रियः ॥ भजते मम यो नित्यं मम लोकाय गच्छति । वैश्यानान्तु प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् ॥ यानि कर्म्माणि कुरुते मम भक्तिपथे स्थितः । एतैर्गुणैः स्वधर्म्मेण लाभालाभविवर्ज्जितः ॥ ऋतुकालाभिगामी च शान्तात्मा मोह- वर्जितः । शुचिर्दक्षो निराहारो मम कर्म्मरतः सदा ॥ गुरुसंपूजको नित्यं युक्तो भक्त्यानुवत्सलः । वैश्यस्त्वेवन्तु संयुक्तो यो नु कर्म्माणि कारयेत् । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ अथ शूद्रस्य वक्ष्यामि कर्म्माणि शृणु माधवि ! । यानि कर्म्माणि कृत्वा तु शूद्रो मह्यं व्यवस्थितः ॥ दम्पती मम भक्तौ यौ मम कर्म्मपरायणौ । उभौ भागवतौ भक्तौ मत्परौ कर्म्मनिष्ठितौ ॥ देशकालौ च जानाति रजसा तमसोज्झितः निरहङ्कारयुक्तात्मा आतिथेयो विनीतवान् ॥ श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्ज्जितः । नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥ शूद्रकर्म्माणि मे देवि ! य एवं स समाचरेत् । त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ॥” इति वाराहे विधिकर्म्मोत्पत्तिनामाध्यायः ॥ अपरञ्च । सुकेशिरुवाच । “विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः आचक्षध्वं न से तृप्तिः शृण्वतः प्रतिविद्यते ॥ ऋषय ऊचुः । कृतोपनयनः सम्यक् ब्रह्मचारी गुरौ वसन् । तत्र धर्म्मोऽस्य यस्तञ्च कथ्यमानं निशामय ॥ स्वाध्यायोऽर्थोऽग्निशुश्रूषा स्नानं भिक्षाटनन्तथा । गुरौ निवेद्य तच्चाद्यमनुज्ञातेन नित्यशः ॥ धर्म्मार्थकाममोक्षाणां सम्यक् प्रत्युपपादनम् । तेनाहूतः पठेच्चैव तत्परीभूय नित्यशः ॥ अवाप्य सकलान् वेदान् शास्त्रं प्राप्य गुरो- र्मुखात् । ततो वरान्मुदा दद्याद्गुरवे दक्षिणान्ततः ॥ गार्हस्थाश्रमकामस्तु गार्हस्थ्याश्रममाश्रयेत् । वानप्रस्थाश्रमञ्चापि चतुर्थं स्वेच्छया वसेत् ॥ तथैव च गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् । गुरोरभावे तत्पुत्त्रं तद्बदेव निषेवयेत् ॥ एवं जयति मृत्युं स द्विजः शालङ्कटङ्कट ! । उपावृतस्ततस्तस्मात् गृहस्थाश्रमकाम्यया । असमानकुलां कन्यामुद्वहेत निशाचर ! ॥ स्वकर्म्मणा धनं लब्ध्वा पितृदेवातिथीनपि । सम्यक् संप्रीणयेद्भक्त्या सदाचाररतो द्विजः ॥ गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः । क्षत्त्रियस्यापि गदिता य आचारा द्बिजस्य हि ॥ वैखानसत्वं गार्हस्थ्यमाश्रमद्बितयं विशः । गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ! ॥ स्वानि वर्णाश्रमोक्तानि कर्म्माणीह न हापयेत् यो हापयति तस्यासौ परिकुप्यति भास्करिः ॥” इति वामनपुराणे १४ अध्यायः ॥ * ॥
पुनश्च । श्रीउर्व्व उवाच । “ब्राह्मणक्षत्त्रियविशां शूद्राणाञ्च यथाक्रमम् । त्वमेकाग्रमना भूत्वा शृणु धर्म्मान् मयोदितान् ॥ दानं दद्याद्यजेद्देवान् यज्ञैः स्वाध्यायतत्परः । नित्योदकी भवेद्विप्रः कुर्य्याच्चाग्निपरिग्रहम् ॥ वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा । कुर्य्यात् प्रतिग्रहादानं शुक्तार्थान्न्यायतो द्बिजः ॥” शुक्लार्थात् शुक्लः शुद्धो न्यायोपार्ज्जितोऽर्थो यस्य तस्मात् । इति तट्टीका । “सर्व्वलोकहितं कुर्य्यान्नाहितं कस्यचिद्द्विजः । मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ ग्राव्णि रत्ने च पारक्ये समबुद्धिर्भवेत् द्बिजः । ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ! ॥ १ दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्त्रियोऽपि हि । यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिव ॥ शस्त्राजीवो महीरक्षाप्रवरा तस्य जीविका । तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ धरित्रीपालनेनैव कृतकृत्यो नराधिपः । भवन्ति नृपतेरंशा यतो यज्ञादिकर्म्मणाम् ॥ दुष्टानां शासबाद्राजा शिष्टानां परिपालनात् । प्राप्नोत्यभिमताल्लोकान् वर्णसंस्कारको नृपः ॥ २ ॥ पाशुपाल्यं बाणिज्यञ्च कृषिञ्च मनुजेश्वर । वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ तस्याप्यध्ययनं यज्ञो दानधर्म्मश्च शस्यते । नित्यनैमित्तिकादीनामनुष्ठानञ्च कर्म्मणाम् ॥ ३ ॥ द्बिजातिसंश्रयं कर्म्म तादर्थ्यं तेन पोषणम् । क्रयविक्रयजैर्व्वापि धनैः कारूद्भवेन वा ॥ दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेदपि । पित्रादिकञ्च सर्व्वं वै शूद्रः कुर्व्वीत तेन च ॥ ४ ॥ भृत्यादिभरणार्थाय सर्व्वेषाञ्च परिग्रहः । ऋतुकालाभिगमनं स्वदारेषु महीपते ॥ दया समस्तभूतेषु तितिक्षा नाभिमानिता । सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर । अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ आश्रमाणाञ्च सर्व्वेषामेते सामान्यलक्षणाः । गुणास्तथापद्धर्मांश्च विप्रादीनामिमान् शृणु ॥ क्षात्त्रं कर्म्म द्विजस्योक्तं वै श्यकर्म्म तथापदि । राजन्यस्य च वैश्योक्तं शौद्रं कर्म्म न चैतयोः ॥ सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव । तदेवापदि कर्त्तव्यं न कुर्य्यात् कर्म्म सङ्करम् ॥ इत्येते कथिता राजन् वर्णधर्म्मा मया तव । धर्म्ममाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ * ॥
श्रीउर्व्व उवाच । बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥ शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥ उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥ स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति । शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संभजेत् ॥ तेनैवोक्तः पठेद्बेदं नान्यचित्तः पुरस्थितः । अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ अवगाहेदपः पूर्ब्बमाचार्य्येणावगाहिताः । समिज्जलादिकं चास्य कल्यं कल्यमुपानयेत् ॥ गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै । गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ १ ॥ विधिना चाप्तदारस्तु धनं प्राप्य स्वकर्म्मणा । गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल ! शक्तितः ॥ निर्व्वापेण पितॄनर्च्चेद्यज्ञैर्देवांस्तथातिथीन् । अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ बलिकर्म्मणा च भूतानि वात्सल्येनाखिलं जगत् । प्राप्नोति लोकान् पुरुषो निजकर्म्मसमर्ज्जितान् ॥ भिक्षाभुजश्च ये केचित् परिव्राट् ब्रह्मचारिणः । तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ वेदाहरणकार्य्येण तीर्थस्नानाय च प्रभो ! । अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ अनिकेता ह्यनाहारा यत्र सायं गृहास्तु ये । तेषां गृहस्थः सर्व्वेषां प्रतिष्ठा योनिरेव च ॥ तेषां स्वागतदानादि वक्तव्यं मधुरं वचः । गृहागतानां दद्याच्च शयनासनभोजनम् ॥ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ अवज्ञानमहङ्कारो दम्भश्चैव गृहे सतः । परितापोपघातौ च पारुष्यञ्च न शस्यते ॥ यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् । सर्व्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी । पुत्त्रेष भार्य्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ २ ॥ पर्णमूलफलाहारः केशश्मश्रुजटाधरः । भूमीशायी मवेत्तत्र मुनिः सर्व्वातिथिर्नृप ॥ चर्म्मकाशकुशैः कुर्य्यात् परिधानोत्तरीयके । तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर ॥ देवताभ्यर्च्चनं होमः सर्व्वाभ्यागतपूजनम् । भिक्षा बलिप्रदानञ्च शस्तमस्य नरेश्वर ॥ वन्यस्नेहेन गात्राणामभ्यङ्गश्चास्य शस्यते । तपस्यतश्च राजेन्द्र शीतोष्णादिसहिष्णुता ॥ यस्त्वेतां नियतश्चर्य्यां वानप्रस्थश्चरेन्मुनिः । स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥ ३ ॥ चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः । तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप । चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः । त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते । मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥ जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् । युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्ज्जयेत् ॥ एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे । तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥ प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने । काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद्गृहान् ॥ कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये । तांस्तु दोषान् परित्यज्य परिव्राट् निर्म्ममो भवेत् ॥ अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः । न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निञ्च मुखे जुहोति । विप्रस्तु भेक्षोपगतेर्हविर्भि- श्चिताग्निनां स व्रजतिस्म लोकान् ॥ चिताग्नीनां अग्निचितामित्यर्थः । चिताग्निना इति वा पाठः । इति तट्टीका ॥ “मोक्षाश्रमं यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयति द्विजातिः ॥” ४ ॥ इति विष्णुपुराणे ३ अंशे ८ । ९ अध्यायौ ॥ * ॥
प्रकारान्तरेण तेषामादिसृष्टिर्यथा, —
“ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा । तस्मात् पद्मात् समभवद्ब्रह्मा वेदमयो विधिः ॥ प्रजाविसर्गं विविधं मानसो मनसासृजत् । असृजद्ब्राह्मणानेव पूर्ब्बं ब्रह्मा प्रजापतिः ॥ आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान् । ततः सत्यञ्च धर्म्मञ्च तपो ब्रह्म च शाश्वतम् ॥ आचा ञ्चैव शौचञ्च स्वर्गाय विदधे विभुः । देवदानवगन्धर्व्वा दैत्यासुरमहोरगाः ॥ यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्च नृपसत्तम ! ॥ ये चान्यभूतसंघानां वर्णास्तांश्च विनिर्म्ममे । ब्राह्मणानां सितो वर्णः क्षत्त्रियाणाञ्च लोहितः ॥ वैश्यस्य पीतको वर्णः शूद्राणामसितस्तथा ॥ मान्धातोवाच । चातुर्व्वर्णस्य वर्णेन यदि वर्णो विभज्यते । सर्व्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ॥ कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः । सर्व्वेषां न प्रभवति कस्माद्वर्णो विभज्यते ॥ स्वेदमूत्रपुरीषाणि श्लेष्मापित्तं सशोणितम् । तनुः क्षरति सर्व्वेषां कस्मावर्णो विभज्यते ॥ जङ्गमानामसं ख्येयाः स्थावराणाञ्च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ नारद उवाच । न विशेषोऽस्ति वर्णानां सर्व्वं ब्रह्ममयं जगत् । ब्रह्मणा पूर्ब्बसृष्टं हृइ कर्म्मभिर्व्वर्णतां गतम् ॥ कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रिय- साहसाः । त्यक्तस्वधर्म्मा रक्ताङ्गास्ते द्विजाः क्षत्त्रतां गताः ॥ गोभ्यो वृत्तिं समास्थाय पीताः कृष्यनुजीविनः । स्वधर्म्मान्नानुतिष्ठन्ति ते द्बिजा वैश्यतां गताः ॥ हिंसानृतप्रिया लुब्धाः सर्व्वकर्म्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्बिजाः शूद्रतां गताः ॥ इत्येतैः कर्म्मभिर्व्यस्ता द्बिजा वर्णान्तरं गताः । इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती ॥ विहिता ब्रह्मणा पूर्ब्बं लोभादज्ञानतां गताः । ब्राह्मणा धर्म्मतन्त्रस्थास्ततस्तेषां न नश्यति ॥ ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा । ब्रह्म चैव परं सृष्टं येन जानन्ति तद्विदः ॥ ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः । आदिदेवसमुद्भू ता ब्रह्ममूलाक्षताव्ययाः । सा सृष्टिर्म्मानसी नाम धर्म्मतन्त्रपरायणाः ॥ मान्धातोवाच । ब्राह्मणः केन भवति क्षत्त्रियो वा द्विजोत्तम ! । वैश्यः शूद्रश्च देवर्षे तद्ब्रूहि वदतांवर ॥ नारद उवाच । जातकर्म्मादिभिर्यस्तु तंस्कारैः संस्कृतः शुचिः । वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः ॥ शौचाचारपरो नित्यं विघसाशी गुरुप्रियः । नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते ॥ सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा । तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ क्षत्त्रजं सेवते कर्म्म वेदाध्ययनसंयुतः । दानादानवहिर्यस्तु स वै क्षत्त्रिय उच्यते ॥ विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः । वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥ सर्व्वभक्ष्मरतिर्नित्यं सर्व्वकर्म्मकरोऽशुचिः । त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ शूद्रे चैव भवेल्लक्षं द्विजे चैव न विद्यते । न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः मान्धातोवाच । के धर्म्माः सर्व्ववर्णानां चातुर्व्वर्णस्य के पृथक् । चातुर्व्वर्ण्याश्रमाणाञ्च राजधर्म्माश्च के मताः ॥ नारद उवाच । अक्रोधः सत्यवचनं संविभागः क्षमा तथा । प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥ आर्ज्जवं भृत्यभरणं न वै ते सार्व्ववर्णिकाः । ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् ॥ दममेव महाराज धर्म्ममाहुः पुरातनम् । स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते ॥ तं चेद्वित्तमुपागच्छेद्वत्तमानं स्वकर्म्मणि । अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् ॥ कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत च । संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते ॥ परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ॥ * ॥
क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव । दद्याद्राजा न याचेत यजेत न च याजयेत् ॥ नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् । नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ॥ ये तु क्रतुभिरीजानाः श्रुतवन्तश्च पार्थिवाः । ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः ॥ अविक्षतशरीरो हि संगराद्यो निवर्त्तते । क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ॥ क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः । नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् ॥ दानमध्ययनं यज्ञो राज्ञां क्षेमोऽभिधीयते । तस्माद्राज्ञा महाराज योद्धव्यं धर्म्मशीलिना ॥ प्रजाः स्वेषु च धर्म्मेषु स्थापयेत महीपतिः । धर्म्म्याण्येव हि कर्म्माणि कारयेत् सततं प्रजाः ॥ परमां सिद्धिमाप्नोति नृपतिः परिपालनात् । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते ॥ * ॥
वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः ॥ दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः । पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् ॥ विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् । रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् ॥ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः । ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः ॥ तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । षण्णामेकां पिबेद्धेनुं शताच्च मिथुन भवेत् ॥ लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे । शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः ॥ न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति । वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥ * ॥
शूद्रस्यापि हि यो धर्म्मस्तं ते वक्ष्यामि भूपते । प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥ तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधीयते । तषां शुश्रूषणञ्चैव महत् सुखमवाप्नुयात् ॥ शूद्र एतान् परिचरेत् त्रीन् वर्णाननुपूर्व्वशः । मञ्चयांश्च न कुर्व्वीत यातु शूद्रः कथञ्चन ॥ पापीयान् हि धनं लब्ध्वा वशे कुर्य्याद्गरीयसः । गाज्ञा वा ममनुज्ञातः कामं कुर्व्वीत धार्म्मिकः ॥ तस्य वत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् । अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥ छत्त्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि देयानि शूद्राय परिचारिणे ॥ अधार्य्याणि विशीर्णानि वसनानि द्विजातिभिः । शूद्रायैव प्रदेयानि तस्य धर्म्मधनं हि तत् ॥ यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् । कल्पन्तेऽस्य तु तेनाहुर्वृत्तिं धर्म्मविदो जनाः ॥ देयः पिण्डोऽनपत्याय भर्त्तव्यो वृद्धदुर्ब्बलौ । शूद्रेण च न हातव्यो भर्त्ता कस्याञ्चिदापदि ॥ अतिरेकेन भर्त्तव्यो भर्त्ता द्रव्यपरिक्षये । न हि स्वमस्ति शूद्रस्य भर्त्तृहार्य्यधनो हि सः ॥ उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च पार्थिव । स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ॥ तस्माच्छूद्रः पाकयज्ञैर्याजयेत नच स्वयम् । पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ * ॥
श्रीनारद उवाच । इदानीमाश्रमाणाञ्च धर्म्मं वक्ष्यामि भूमिप । ब्रह्मचर्य्याश्रमं तावत् शृणु सर्व्वाधिवासन ॥ गत्वा गुरुगृहं शिष्यो नमस्कृत्य गुरुं शुचिः । ब्रूयादध्येतुमायातः शिष्योऽहं तव मारिष । ततस्तस्याज्ञया नित्यमध्येतव्यं नराधिप ॥ सदा विचारः शास्त्रस्य गुरुपादाभिवादनम् । तदाज्ञापालनञ्चापि ध्यानं दैवतभावना ॥ लाभेन येन केनापि तुष्टिः सद्भिः समागमः । समाप्तविद्यो गुरवे दक्षिणां प्रतिपाद्य च ॥ * ॥
गृहाश्रमं ततो गच्छेद्गुरोराज्ञामधिव्रजन् । उद्बहेत् कुलजां कन्यां सुशीलां घर्म्मचारिणीम् ॥ अनहंवादिनीं सौम्यां सुचरित्रां प्रियंवदाम् । गृहिणां प्रथमो धर्म्मोऽतिथिपूजैव पार्थिव ॥ अप्राप्य पूजामतिथिर्यस्य गेहान्निवर्त्तते । स याति नरकं घोरं पुण्यं तस्मै प्रदाय च ॥ प्रथमं स्वागतं पृच्छेदासनञ्चापि संदिशेत् । पाद्यञ्च मधुपर्कञ्च दद्यात् प्रणतिपूर्व्वकम् ॥ संवादञ्च प्रियालापं कुर्य्यात्तेन सहान्ततः । भोजनञ्च यथाशक्ति कारयेदतिथिं नृप ॥ देवाश्च पितरश्चापि प्रीयन्तेऽतिथिपूजने । आतिथ्यसदृशं कर्म्म गृहस्थानां न विद्यते ॥ यस्य नित्यं स्थितिर्नास्ति सोऽतिथिःपरिकीर्त्तितः । सर्व्वाश्रमाणामधिको गृहाश्रम उदाहृतः ॥ यस्मात्तस्मिन् समायान्ति भिक्षार्थमाश्रमास्त्रयः । पितृदेवार्च्चनं कार्य्यं गृहिणा सुखमिच्छता ॥ * ॥
वानप्रस्थाश्रमं वक्ष्ये तृतीयं जगतीपते । वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात् ॥ तदारण्यकशास्त्राणि यमधीत्य स धर्म्मवित् । ऊर्द्ध्वरेताः प्रव्रजित्वा गच्छत्यक्षरसात्सताम् ॥ सुते भार्य्यां परिन्यस्य वनं गच्छेत् सहैव वा । शान्तः शुद्धान्तरात्मा च सर्व्वभूतहिते रतः ॥ चरितब्रह्मचर्य्यस्य ब्राह्मणस्य विशाम्पते । कर्त्तव्याणीह राजेन्द्र कथ्यन्ते मुनिपुङ्गवैः ॥ भैक्ष्यचर्य्यास्वधीकारः प्रशस्त इह मोक्षिणः । यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ॥ यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः । निराशीः स्यात् न्नर्व्वसमो निर्योगो निर्व्विकार- वान् ॥ विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा । संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥ पत्रमूलफलाहारी जलाशी वायुभोजनः । निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् । एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥ चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि । गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥ विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः । योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः । धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा- प्नुयात् ॥” इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥ * ॥
अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय- पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३ अध्याये च द्रष्टव्यम् ॥ * ॥
* ॥
गजचित्रकम्बलः । हातीर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५ कुथा ६ । इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८ कुथम् ९ । इति भरतः ॥ शुक्लादिः । रङ् इति ख्यातः । स च बहुविधो यथा । श्वेतः १ पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६ रक्तः ७ शोणः ८ अरुणः ९ पाटलः १० श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ । इति चामरः ॥ गर्भस्थबालकस्य षष्ठे मासि वर्णो भवति । इति सुखबोधः ॥ यशः । गुणः । स्तुतिः । इति मेदिनी । णे, २६ ॥ स्वर्णम् । व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः । चित्रम् । तालविशेषः । अङ्गरागः । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
वर्णः || पुं, क्ली, (वर्ण्यते भिद्यते इति । वर्ण + घञ् ।)
भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।)
वर्ण + घञ् ।)
रूपम् । (वर्णयति । वर्ण + अच् ।)
अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण + घञ् ।)
विलेपनम् । इति मेदिनी । णे, २६ ॥ * ॥
वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च । अस्योत्पत्तिप्रकारो यथा, —
“अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् । अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा । मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥” इति प्रपञ्चसारः ॥ अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म- ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि- ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्व- णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इति तट्टीका ॥ * ॥
अस्य कुण्डलीस्वरूपत्वं यथा, —
“कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी । त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥ द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी । गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥ विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् । एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥ त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् ॥” इति सारदातिलकः ॥ अस्यार्थः । त्रिधामेति चन्द्रसूर्य्याग्निरूपा । द्बि- चत्वारिंशदिति भूतलिपिमन्त्रमयी । पञ्चाश- दिति मातृकामयीत्यर्थः । सर्व्वगात्रेण सर्व्ववर्णेन गुणिता परस्परमिलिता सती मन्त्रमयं जगत् सूते प्रकाशयति इत्यर्थः । मूलाधारे सर्पवत् कुण्डलीभूता नाडी वर्त्तते तन्मध्यस्थायित्वादियं कुण्डली । सर्व्वविश्वेत्युभयोपादानात् शब्दार्थ- रूपोभयप्रतिपादिकेति सूचितम् । त्रिपुष्कर- मिति ज्येष्ठमध्यमकनिष्ठत्वेन तीर्थत्रयम् । स्वरा- निति उदात्तानुदात्तसमाहारान् । इति तट्टीका ॥ * ॥
अपि च । “द्बिचत्वारिंशता मूले गुणिता विश्वनायिका । सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी तिभुः ॥ शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निवोधिका । ततोऽर्द्धेन्दुस्ततो विन्दुस्तस्मादासीत् परा ततः ॥” इति सारदायामाचार्य्याः ॥ मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्व- नायिका कुण्डलिनी अनेन क्रमेण अकारादि- सकारान्तां द्विचत्वारिंशदात्मिकां भूतलिपि- मन्त्रात्मिकां वर्णमालिकां सूते इत्यन्वयः । क्रम- माह शक्तिमिति सा कुण्डलिनी शक्तिं सूते ततः शक्तेर्ध्वनिरासीदिति योजना । ततो ध्वनेरित्यादि ज्ञेयम् । अयञ्च क्रमः सर्व्वाक्षरो- त्पत्तौ ज्ञेयः । तत्र सत्त्वप्रविष्टा चिच्छक्तिशब्द- वाच्या । पुनराकाशस्था सैव सत्त्वप्रविष्टा रजो- ऽनुविद्धा सती ध्वनिशब्दवाच्या । अक्षरावस्था सैव तमोऽनुविद्धा नादशब्दवाच्या । अव्यक्तावस्था सैव तमःप्राचुर्य्यान्निबोधिकाशब्दवाच्या । सैव तदुभयप्राचुर्य्यादर्द्धेन्दुशब्दवाच्या । उक्तञ्च पदा- र्थादर्शे । “इच्छाशक्तिबलोद्घुष्टो ज्ञानशक्तिप्रदीपकः । पुंरूपिणी च सा शक्तिः क्रियाख्या सृजति प्रभुः ॥” असावेव बिन्दुः स्थानान्तरगतः पराद्याख्यो भवति । पश्यन्ती मध्यमा वाची वैखरी शब्दजन्मभूः । तत्र परा मूले पश्यन्ती स्वाधिष्ठाने मध्यमा हृदये वैखरी मुखे । तदुक्तं पदार्थादर्शे । “सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी । अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्धगामिनी ॥ स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् । सैव हृत्पङ्कजं प्राप्य मध्यमा नाद्ररूपिणी ॥ ततः संजल्पमात्रा स्यादविभक्तोर्द्धगामिनी । सैवोरःकण्ठतालुस्था शिरोघ्राणरद्रस्थिता ॥ जिह्वामूलौष्ठनिर्धू तसर्व्ववर्णपरिग्रहा । शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥ इच्छाज्ञानक्रियात्सासौ तेजोरूपा गुणात्मिका । क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् ॥ अकारादिसकारान्तां द्बिचत्वारिंशदात्मिकाम् । पञ्चाशद्बारगुणिता पञ्चाशद्बर्णमालिकाम् ॥ सूते तद्वर्णतो भिन्नाः कला रुद्रादिकान् क्रमात् ॥” इति तट्टीका ॥ “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालुका ॥” इति शिक्षासूत्रम् ॥ * ॥
किञ्च । “यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः । भेदा येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः । व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टितः ॥ उच्चैरुन्मार्गणो वायुरुदात्तं कुरुते स्वरम् । नीचैर्गतोऽनुदात्तञ्च स्वरितं तिर्य्यगागतः ॥ अर्द्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् । सव्यञ्जनह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ अकारेकारयोर्योगादेकारो वर्ण इष्यते । तस्यैवैकारयोगेन स्यादैकाराक्षरं तथा ॥ उकारयोगात्तस्यैव स्यादोकाराह्वयः स्वरः । तस्यैवैकारयोगेन स्यादौकाराह्वयः स्वरः ॥ सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्व्वार्थसाधकाः । ऌवर्णर्वर्णयोर्व्यक्तिर्न वै सम्वक् प्रदर्श्यते ॥ बिन्दुसर्गात्मनोर्व्यक्तिमनसोरजपा वदेत् । कण्ठात्तु निःसरन् सर्गः प्रायोऽचात्मकतः- परः ॥ नश्वरः सर्ग एव स्यात् सोच्छ्वासः प्राणकस्तु हः । स सर्गः श्लेषितः कण्टे वायुना कादिमीरयेत् ॥ वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् । स्तोकगम्भीरसं स्पर्शात् गघौ ङञ्च वहिर्गतम् ॥ विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यं तथा । ऋटुरेफसकारञ्च मूर्द्धगो दन्तगस्तथा ॥ ऌतवर्गलसानोष्ठ्यानुपूपध्मानसंज्ञकान् । दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समी- रयेत् ॥” इति प्रपञ्चसारे ३ पटलः ॥ सर्गो विसर्ग एव नश्वरो विकृतः सोच्छ्वासः सकाररूपः उच्छ्वासोऽन्तःप्रवेशशाली वायुः स्यादित्यन्वयः । एवं प्राणको वहिर्निर्गमन- शाली वायुर्हः स्यात् स एव उच्छ्वासः सोच्छ्वासः । प्राणश्चासौ को वायुश्चेति प्राणकः । इति तट्टीका ॥ * ॥
अवर्णकवर्गहविसर्ज्जनीयाः कण्ठ्याः । १ । इवर्णचवर्गयशास्तालव्याः । २ । ऋवर्णटवर्गरषा मूर्द्धन्याः । ३ । ऌवर्णतवर्ग- लसा दन्त्याः । ४ । उवर्णपवर्गोपध्मानीया ओष्ठ्याः । ५ । वो दन्त्यौष्ठ्यः । ६ । ए ऐ कण्ठ्य- तालव्यौ । ७ । ओ औ कण्ठ्यौष्ठ्यौ । ८ । इति शिक्षासूत्रम् ॥ * ॥
अपि च । “यद्गुह्यं सर्व्वतन्त्रेषु वर्णोच्चारविधिं शिवे ! । तव स्नेहान्महेशानि ! तदद्य कथयामि ते ॥ पञ्चाशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेत् । अ कु चु टु तु पु यु शु अष्टौ वर्गाः प्रकीर्त्तिताः ॥ अ कु हाः कण्ठतो ज्ञेया १ स्तालुतश्चुयशाः स्मृताः । २ । ऋ टु रषास्तु मूद्धन्याः ३ दन्त्या ऌ तु ल सा मताः ॥ ४ ॥ उपवश्चोष्ठसंभूताः ५ स्थानानि कथितानि ते । विशेषं कथयाम्यद्य प्रोच्चार्य्यः कण्ठतः स्वराः ॥ ऋद्बयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् । मुखस्थानाद्धलो वाच्याः क्षकारः कण्टघातजः ॥ व्यञ्जनद्वयसंयोगे भवेत् पूर्ब्बस्वरो गुरुः । पदान्तादिमवर्णस्य संयोगेषु श्रुतिर्द्वयोः ॥ अपदान्तादिसंयोगे य्वोरन्यत्र तथेष्यते । य्वोः श्रुतिस्तु तिरोभूय स्वरवत् श्रुतितां व्रजेत् ॥ श्रिया बीजे शकारस्य छश्रुतिः परमेश्वरि ! । छश्रुतिश्च रादिभृगौ तथादिस्थे तु चश्रुतिः ॥ सहस्र इत्यादौ नमस्तस्यै आस्था इत्यादौ च । रेफादिके तदन्ते वा हकारे समवाच्यता ॥ वर्हः ह्रद इत्यादौ । किन्तु वैजात्यमाश्रित्य स्फुटं नात्रास्य वाच्यता ॥ चु तूर्य्यध्वनिमाप्नोति यादिस्थे परमेश्वरि ! । वाह्य इत्यादौ । पु चतुर्थव्वनिं याति वादिस्थे तु विशेषतः ॥ आह्वानमित्यादौ । लादिस्थेऽप्यथ नादिस्थे वैजात्यं स्वल्पवाच्यता । प्रह्लाद अह्राय इत्यादौ । मादिस्थे भे च मस्यापि नासिकामूलवाच्यता ॥ उ ङ ण न मा बिन्दुर्नासिकामूलजाः स्मृताः । यकारश्चु तृतीयत्वं पदादौ सर्व्वदा व्रजेत् ॥ केयूरादावपि तथा अन्यत्र कण्ठमात्रगः । नादिस्थशसयोश्छत्वं स्वरयोगान्तवर्गके ॥ प्रश्नः स्नान इत्यादौ । वर्णोत्तरेषु डढयोर्व्वक्रजिह्वादिवाच्यता । वैजात्यमपि तत्रास्ति गुरोरेव समभ्यसेत् । आदिरेफस्तु संप्रोक्तो दृशेरन्यो व्रजेदृताम् । एवं ज्ञात्वा महेशानि ! पठेत् स्तोत्रं जपेन्मनुम् ॥ कवचञ्च महेशानि नान्यथा फलमाप्नुयात् ॥” इति प्रपञ्चसारे ३ पटलः ॥ * ॥
अपि च । “ह्रस्वः स्वरेषु पूर्ब्बोक्तः परो दीर्घः क्रमादिमे । शिवशक्तिमयास्ते स्युर्बिन्दुसर्गावसानकाः ॥ बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशा- करः । स्वराणां मध्यगं यत्तु तच्चतुष्कं नपुंसकम् ॥ विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा । शिवशक्तिमयान् प्राहुस्तस्माद्वर्णान् मनीषिणः ॥ कारणात् पञ्चभूतानामुद्भूता मातृका यतः । ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः ॥ वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घाः विन्द्वन्ताः सन्धिसम्भवाः । पञ्चशः कादयः ष क्ष ल स हान्ताः समी- रिताः ॥” इति सारदा ॥ * ॥
अक्षरसृष्टिकारणं यथा, —
“साण्मासिकेऽपि समये भ्रान्तिः संजायते यता । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥” इति ज्योतिस्तत्त्वे बृहस्पतिः ॥ वर्णलेखनप्रकारस्तु तत्तद्वर्णे द्रष्टव्यः ॥ * ॥
वर्ण- नामानि यथा, —
“तन्त्रसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः । वर्णनामानि कतिचित् वक्ष्यामि विदुषां मुदे ॥ ॐकारो वर्त्तुलस्तारो वामश्च हंसकारणम् । मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः । सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ आदिबीजं वेदसारो वेदबीजमतः परम् । पञ्चरस्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥ गायत्त्रीबीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः । अक्षरं मातृकासूश्चानादिरद्बैतमोक्षदौ ॥ ॐ ॥ अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः । पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियंवदः ॥ महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् । कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् ॥ ब्रह्मा वामाद्यजो ह्रस्वः करसूः प्रणवाद्यकः । ब्रह्माणी कामरूपश्च कामेशी वाशिनी वियत् ॥ विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी । अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥ अः ॥ आकारो विजयानन्तो दीर्घच्छायो विनायकः । क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥ प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः । प्रतिष्ठा मानदा कान्तो विश्वान्तकगजान्तकः ॥ पितामहो द्विठान्तोऽभूः क्रिया कान्तिश्च सम्भवः । द्वितीया मानदा काशीविघ्नराजः कुजो वियत् । स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥ आः ॥ इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः । सुमित्रं सुन्दरो वीरः कोटरः काटरः पयः ॥ भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका । शान्तः कान्तः कामिनी च कामो विघ्नविना- यकः । नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥ ॥ इः ॥ ईस्त्रिभूर्त्तिर्महामाया लोलाक्षी वामलोचनम् । गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ विष्णुर्लक्ष्मीः प्रहासश्व वाग्विशुद्धः परापरः । कलोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥ शिवोत्तमः शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी । वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥ पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका । कुचद्वन्द्वं तर्ज्जनी व शान्तिस्त्रिपुरसुन्दरी ॥ ईः ॥ उः शङ्करो वर्त्तुलाक्षी भूतःकल्याणवाचकः । अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ उग्रः प्रमुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः । शत्रुघ्नश्चेटिका पुष्टिः पञ्चमी वह्रिवासिनी ॥ चेटिकास्याने चेक्षिका इति वा पाठः । कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही । डटसूः कुटिला श्रोत्रं पारद्बीपो वृषो हरः ॥ डठसू इति कुत्रचित् पाठः । उः ॥ ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः । कामराजः कुजेशश्च महेशो वामकर्णकः ॥ कण्ठकस्थाने कण्टक इति वा पाठः । अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती । विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी । महाविद्येश्वरी षष्ठा षण्डो भूः कान्यकुब्जकः ॥ ॥ ऊः ॥ ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः । भावभूतिः क्रिया क्रूरा रेचिका नासिका धृतः ॥ एकपादशिरो माला मण्डला शान्तिनी जलम् । कर्णः कमलभा मेधो निवृत्तिर्गणनायकः । रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी ॥ मेधः स्थाने मेष इति च पाठः ॥ ऋः ॥ ॠः क्रोधोऽतिथिशो वाणी वामनोऽगोऽथ श्रीर्धृतिः । ऊर्द्धमुखी निशानाथः पद्ममाला विनष्टधीः ॥ शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता । एकदन्ताह्वयो माता हरिता मिथुनोदया ॥ माता स्थाने माया इति वा पाठः । कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी । ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी ॥ मिवस्थाने मवेति वा पाठः । ऋः ॥ ऌः स्थाणुः श्रीधरः शुद्धो मेधा धूम्रो वको वियत् । देवयोनिर्दक्षगण्डो वहेशः कौन्तरुद्रकौ । वहेशस्थाने वाहग इति वा पाठः । विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा । चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥ शुचिस्मिता च नवमी कान्तिराषातकेश्वरः । चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी ॥ चित्ताकर्षिणीस्थाने चिन्ताकर्षिणी इति वा पाठः । ऌः ॥ ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः । सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥ शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् । कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥ कामिनी विश्वषा कालो नित्या शुद्धः शुचिः कृती ॥ विश्वषास्थाने विस्मया इति वा पाठः । सूर्य्यो धैर्य्याकर्षणी च एकाकी दनुजप्रसूः ॥ ॡः ॥ एकारो वास्तवः शक्तिर्झिण्टीशोष्ठौ भगं मरुत् । सूक्ष्मा भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः ॥ भूतस्थाने शृत इति वा पाठः । भयं ज्ञानं कृषा धीरा जङ्घा सर्व्वममुद्भवः । वह्निविष्णुर्भगवती कुण्डली मोहिनी वसः ॥ योषिदाधारशक्तिश्च त्रिकोणा ईशसं ज्ञकः । सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ॥ एः ॥ ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः । दक्षा दामोदरः प्रज्ञोऽधरो विकृतमुख्यपि ॥ क्षमात्मको जगद्योनिः परः परनिबोधकृत् । ज्ञानामृता कपर्द्दी श्रीः पीठेशाग्निः समातृकः ॥ त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः । महेश्वरो द्वादशी च विमलश्च सरस्वती । कामकोटो वामजानुरंशुमान् विजया जटा ॥ ॥ ऐः ॥ ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिःस्थिरा । सद्योजातो वासुदेवो गायत्त्री दीर्घजङ्घकः ॥ आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्बिजः । उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ॥ प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमङ्गला । त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा ॥ त्रैलोक्यविजया प्रक्षा प्रीतिर्बीजादिकर्षिणी ॥ ॥ ओः ॥ औकारः शक्तिको नाशस्तेजसो वामजङ्घकः । मनुबद्धग्रहेशश्च शङ्कुकर्णः सदाशिवः ॥ अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ अनन्ता ज्वालिनी व्योमा चतुर्दशी रतिप्रियः । नेत्रमात्माकर्षिणी च ज्वालामालिनिका भृगुः ॥ व्योमास्थाने रोमा इति वा पाठः । औः ॥ अङ्कारश्चक्षुषो दन्तो वटिका समगुह्यकः । प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥ दन्तस्थाने दम्भ इति वा पाठः । परं शशी प्रमाणीशः सोमबिन्दुः कलानिधिः । अक्रूरश्चेतना नागपूर्णा दुःखहरः शिवः ॥ शिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः । पूर्णिमा रेवती शुद्धः कन्या चरवियद्रविः ॥ अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी । केदारो रात्रिनाशश्च कुब्जिका चैव बुद्वुदः ॥ ॥ अं ॥ अः कण्ठको महासेनः कला पूर्णामृता हरिः इच्छा भद्रा गणेशश्च रतिर्व्विद्यामुखी सुखम् द्बिबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः । द्बिजिह्वः कुण्डलं वक्त्रः सर्गः शक्तिर्निशाकरः ॥ सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥ अः ॥ कः क्रोधीशो महाकाली कामदेवः प्रकाशकः । कपाली तेजसः शान्तिर्वासुदेवो जयानलः ॥ चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः । अनन्तः पार्थिवो बिन्दुस्तापिनी परमात्मकः ॥ दक्षस्कन्धस्थाने दक्षकक्षौ इति वा पाठः । वर्गाद्यश्च मुखी ब्रह्मा सखाद्योऽम्भः शिवो जलम् । माहेश्वरी तुला पुष्पा मङ्गलश्चरणं करः ॥ नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः । श्रीपुरं रमणो रङ्गः कुसुमा परमात्मकः ॥ कः ॥ खः प्रचण्डः कामरूपी ऋद्धिर्व्वह्रिः सरस्वर्त आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥ शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि । शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः ॥ शुभ्राग्नेर्या चण्डलिङ्गो जनाव्याङ्गारखड्गकौ ॥ ॥ खः ॥ गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः । शार्ङ्गी पञ्चान्तको गाथा गन्धर्व्वः सर्व्वगः स्मृतिः ॥ सर्व्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः । विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः ॥ गीतं सरस्वती विद्या भोगिनी नन्दनो धरा । भोगवती च हृदयं ज्ञानं जालन्धरो लवः ॥ लवस्थाने नर इति वा पाठः । गः ॥ घः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरा- न्तकः । वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः ॥ मरीचिर्व्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः । त्रैलोक्यविद्या संहर्त्ता कामाख्यमनघामयः ॥ धः ॥ ङः शङ्खी भैरवश्चण्डो विन्दूत्तंसः शिशुप्रियः । एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥ कान्तिः श्वेताह्वयो धीरो द्बिजात्मा ज्बालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः । शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥ ॥ ङः ॥ चः पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः । चर्म्ममुण्डधरो भूत्वा महिषाचारसम्बिनी ॥ भूत्वास्थाने भौम इति च पाठः । एकरूपो रुचिः कूर्म्मश्चामुण्डा दीर्घवालुकः । वामबाहुर्मलमाया चतुर्मूर्त्तिस्वरूपिणी ॥ दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः । चन्दनं चन्द्रमा दवश्चे तनो वृश्चिको बुधः ॥ देवी केटमुखेच्छात्मा कौमारपूर्व्वफल्गुनी । अनङ्गमेखला वायुर्मेदिनी च मूलावती ॥ चः ॥ छश्छन्दनं सुषुम्ना च प पुः पशुपतिर्मृतिः । निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥ एकनेत्रश्च वृषली द्बिशिरा वामकुर्परः । गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥ माता निशाचरः पायुर्व्विक्षतः स्थितिशब्दकः ॥ ॥ छः ॥ जः शवो वानरः शूली भोगदा विजया स्थिरा । ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ लम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृका धरा । दीर्घबाहू रुचिर्हंसो नन्दी तेजाः सुराधिपः ॥ जवनो वेगितो वामो मानवाक्षः सदात्मकः । हृन्मारुतेश्वरो वेगी चामोदा मदविह्वलः ॥ जः ॥ झो झङ्कारी गुहो झष्झावायुः सत्यः षडुन्नतः । अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः ॥ विराजेन्द्रो धनुर्हस्तः कर्कशो नादजः कुजः । दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः ॥ दुर्मुखो नष्ट आत्मा वान् विकटा कुचमण्डलः । कलहंसप्रिया वामा अङ्गुलीमध्यपर्व्वकः । दक्षहासाट्टहासश्च पाथात्मा व्यञ्जनः स्वरः ॥ ॥ झः ॥ ञकारो वोधनी विश्वा कण्डली मखदो वियत् । कौमारी नागविज्ञानी सव्याङ्गुलनखरो वकः ॥ कण्डलीस्थाने कुण्डली मखदस्थाने सुखद इति वा पाठः । सर्व्वेशचूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः । धर्म्मैकपादौ सुमुखौ विरजा चन्दनेश्वरी ॥ बुद्धिस्थाने सिद्धिः स्वर्गस्थाने सर्ग इति वा पाठः । गायनः पुष्पधन्वा च रागात्मा च वरा- क्षिणी ॥ ञः ॥ टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः । मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥ सोमवा स्थाने सोमेश इति क्वचित् पाठः । दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः । बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः । राजा गिरिर्म्महाधनुर्घ्नानात्मा सुमुखो मरुत् ॥ टः ॥ ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली क्षया । वनजो नन्दनो जिह्वा सुनञ्जघूर्णकः सुधा ॥ वर्त्तुलः कुण्डलो वह्रिरमृतं चन्द्रमण्डलः । दक्षजानूरुभावश्च देवभक्ष्यो बृहद्धनिः ॥ एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः । वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः शशी ॥ ठः ॥ डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनी प्रियः । कामारी शङ्करस्त्राशस्त्रिवक्रो नदको ध्वनिः ॥ दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती । कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च लोचनम् ॥ जटिलीस्थाने जटिल इति कान्तिस्थाने शान्ति- रिति वा पाठः ॥ डः ॥ ढो ढक्का निर्णयः पूर्व्वो यज्ञेशादनदेश्वरः । अर्द्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥ यज्ञेशादनदेश्वर इत्यत्र यज्ञेशो धनदेश्वर इत्यपि पाठः । दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः । प्रहासा त्रिवेरा ऋद्धिनिर्गुणो निधनो ध्वनिः ॥ प्रहासा स्थाने प्रहास इति वा पाठः । विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः । एलापुरं त्वगात्मा च विशाखा श्रीर्म्मनो रतिः ॥ तक्कस्थाने त्वक्च इति वा पाठः ॥ ढः ॥ णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः । जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥ द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनो मता । त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्मुखम् ॥ माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥ मुखस्थाने नखं इति वा पाठः ॥ णः ॥ तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा । वामस्फिक्वामकट्यौ च कामिनी मध्य- कर्णकः ॥ हरिस्थाने हविः इति वा पाठः । आषाढी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः । रत्नकश्च श्याममुखी वाराही मकरोऽरुणा ॥ आषाढीतण्डतुस्नश्चस्थाने आषान्तढान्तक्षुद्रश्च इति रत्नकश्चस्थाने रत्नकण्ठ इति वा पाठः । सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः । गन्धो विश्वामरुच्छत्रश्चानुराधा च सौरकः ॥ बुद्धस्थाने वृद्ध इति सौरकस्थाने सैविक इति वा पाठः । जयन्ति पुलको भ्रान्तिरनङ्गमदनातुरा ॥ तः ॥ थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः । शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥ कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः । वरदा भोगदा केशो वामजानू रसोऽनलः ॥ कृष्णो बुद्धिर्विकर्म्मा स्थाने कृप्तो वह्रिर्व्विकर्णा इति वा पाठः । लोलौजज्जयिनी गुह्यः शरच्चन्द्रो विदारकः ॥ लोलौ इत्यादिस्थाने लोलोज्जयिनीपूर्गुह्यशर- च्चन्द्रदिवाकरौ इति वा पाठः । थः ॥ दोऽद्रीशो धातकिर्धाता दाता दलं कलत्रकम् । दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥ दाता दलं स्थाने दानादनु इति वा पाठः । सुषुम्ना योगिनी सद्यः कुण्डलो वामगुल्फकः । कात्यायनी शिवा दुर्गा लङ्घना नात्रि कण्डकी ॥ लङ्घनास्थाने सङ्घना कण्डकीस्थाने कण्टकी इति वा पाठः । स्वस्तिकः कुटिला रूपः कृष्णश्चोमाजितेन्द्रियः । धर्म्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला ॥ धर्म्महृत्स्थाने घर्म्मकृत् बहुस्थाने वह इति वा पाठः । हरिद्रा पुरमत्रौ च दक्षपाणिस्त्रिरेखकः ॥ दः ॥ धो धनार्थो रुचिः स्थाणुः शाश्वतो योगिनी- प्रियः । मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी ॥ धनार्थस्थाने धनाख्य इति वा पाठः । धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः । पीतवासा त्रिवर्णा च धाता धर्म्मप्लवङ्गमः ॥ धरणाचिन्तास्थाने धरणी चित्रा इति वा पाठः । सन्दर्शो मोहनो लज्जा वज्रतुण्डा धरं धरा । वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः । स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः ॥ धः ॥ नो गर्ज्जिनी क्षमा सौरिर्व्वारुणी विश्वपावनी । मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥ वारुणीस्थाने वरुणा इति वा पाठः । ऊर्द्ध्वचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखम् । वैनतेयस्तुतिर्वर्त्म तरणिर्बालिरागमः ॥ वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्व्वियत् । शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ । गिरिनायकनीलौ च शिवो नादिर्म्महा- मतिः ॥ नः ॥ पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा । गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥ तपनः पालनः पाता पद्मरेणुर्न्निरञ्जनः ॥ सावित्री पातिनी पानं वीरतत्त्वो धनुर्द्धरः ॥ पालनस्थाने पावन इति तत्त्वस्थाने तन्त्र इति वा पाठः । दक्षपार्श्वश्च सेनानी मरीचिः पवनः शनिः । उड्डीशं जयनी कुम्भोऽलसं रेखा च मोहकः ॥ कुम्भस्याने कान्ता इति रेखास्थाने रेषा इति वा पाठः । मूला द्बितीयमिन्द्राणी लोकाक्षी मन आत्मनः ॥ आत्मनः स्थाने आत्मक इति वा पाठः । पः ॥ फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः । जया पादः शिखा रौद्री फेत्कारः शाखिनी प्रियः ॥ उमा विहङ्गमः कालकुब्जिनीप्रियपावकौ । प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः । निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥ व्यक्तास्थाते झञ्झा इति प्रयागस्थाने प्रयाण इति वा पाठः । फः ॥ बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भया मातुः शिखिवाहो युगन्धरः । सुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥ सुखबिन्दुस्थाने मुखबिन्दुरिति वा पाठः । क्लेदिनी तापिता भूमिः सुपनिन्द्रवलिप्रियः । सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥ सुपनिन्द्रस्थाने सुगन्धिश्चेति वा पाठः । षष्ठी पुरञ्च पेटा च मोदको गगनं प्रति । पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥ बः ॥ भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशातवम् । द्विरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥ निशातवस्थाने निशाभयं इति वा पाठः । नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः । नाभिभद्रं भहाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥ वयःस्थाने भय इति विताण्डकस्थाने विमूर्त्तक इति वा पाठः । प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधामेनः सुखो मायापुरं हरः ॥ वज्रस्थाने रुद्रा इति सुखस्थाने मुख इति वा पाठः । भः ॥ मः काली क्लेशितः कालो महाकालो महा- न्तकः । वैकुण्ठो वसुधा चन्द्री रविः पुरुषराजकः ॥ वसुधास्याने वस्तुदा इति वा पाठः । कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः । जठरञ्च भ्रमानानं लक्ष्मीमातोग्रबन्धनौ ॥ दीप्तस्थाने दीप्र इति वा पाठः । विषिं शिवो महावीरः शशिप्रभां जनेश्वरः । प्रमत्तः प्रियसू रुद्रः सर्व्वाङ्गो वह्निमण्डलम् ॥ भातङ्गमालिनो बिन्दुः श्रवणाभरथो वियत् ॥ रथस्थाने मख इति वा पाठः । मः ॥ यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥ युगान्तस्थाने युगाभ इति वा पाठः । शङ्खा भ्रमो जटी लोला वायुवेगी यशस्करी । सङ्कर्षणः क्षपा वालो हृदयं कपिला प्रभा ॥ आग्नेयो व्यापकास्त्यागो होमो यानं प्रमा सुखम् । चण्डः सर्व्वेश्वरी घूमश्चामुण्डा सुमुखेश्वरी ॥ प्रमास्थाने प्रभा इति वा पाठः । त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः । तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी ॥ त्वगात्मास्थाने विगात्मा इति तेनमस्थाने येमन इति वा पाठः । मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥ मेष्ठस्थाने सेष्ट इति वा पाठः । यः । रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः । प्रकाशा दर्शेनो दीपो रतकृष्णा परं बली ॥ स्त्वोजसस्थाने न्तेजन इति रतकृष्णास्थाने रक्त- कृष्ण इति वा पाठः । भुजङ्गेशो मतिः सूर्य्यो धातू रक्तः प्रकाशकः । व्यापको रेवती दासं कुक्ष्यंशो वह्निमण्डलम् ॥ दासस्थाने दानमिति कुक्ष्यंशस्थाने दक्षांश इति वा पाठः । उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा । प्रकृतिः सुगलो ब्रह्मशन्दश्च गायको धनम् ॥ वेदकण्ठपलास्थाने वेदकश्चपला इति वा पाठः । श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी । सविन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतोमुखी ॥ श्रीशैलस्थाने श्रीशोण इति वा पाठः । रः । लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः । वलानुजः पिणाकीशो व्यापको मांससंज्ञकः ॥ माधवस्थाने माधवी इति वा पाठः । खड्गी नादोमृतं देवी लवणं वारुणी पतिः । शिखा वाणी क्रिया माता भामिनी कामिनी प्रिया ॥ मृतस्थाने मृडमिति लवणस्थाने मरणमिति वा पाठः । ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः । विश्मात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥ मन्त्रस्थाने मन्द्र इति कलास्थाने कणा इति वा पाठः । लः । वो वालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वङ्कः कलसध्वनिवाचकः ॥ वङ्कस्थाने रङ्क इति कलसध्वनिस्थाने कलसंरवि इति वा पाठः । उत्कारीशस्तु ना वीतो वज्रा स्फिक् सागरः शुचिः । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ वः ॥ शः सव्यश्च कामरूपी कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥ वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी । मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी ॥ बाहुर्हंसो वियद्बक्त्रं हृदनङ्गाङ्कुशः खलः । वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः । हंसश्चाने हिंसा इति वा पाठः । शः ॥ षः श्वेतो वासुदेवश्च पीता प्रज्ञा विनायकः । परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः ॥ पीतास्थाने प्रीता इति प्रज्ञास्थाने श्रद्धा इति वा पाठः । लम्बोदरो यमौजेशः कामधुक् कामधूमकः । सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः । कामधूमकस्थाने कालधूमक इति वा पाठः । सूर्य्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी । कलकण्ठो मध्यभिन्ना बुद्धात्मा मलपूः शिवः ॥ षः ॥ सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः । जगद्वीजं शक्तिनामा मोहं वेशवती भृगुः ॥ सुयशास्थाने सुजन इति मोहस्थाने सोऽहं इति वा पाठः । प्रकृतिरीश्वरः शुद्धो प्रभा श्वेता कुलोज्ज्वलः । दक्षपादो मृतं ब्राह्मी परमात्मा परोऽक्षरः ॥ सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी । प्राणाद्याश्च पुरादेवी लक्ष्मीः सोमो हिरण्यपुः ॥ दुर्गोत्तारिणी सन्मोहाज्जीवो मूर्त्तिर्मनोहरः ॥ दुर्गोत्तारिणिस्थाने दुर्गोत्तारिणी इति सन्मो- हात्स्थाने सन्मोहा इति मनोहरख्याने मनोयव इति वा पाठः । सः । हः शिवो गगनं हंसो नागलोकोऽम्बिका- पतिः । नकुलीशो जगत्प्राणः प्राणेशः कपिला मलः ॥ मलस्थाने मत इति वा पाठः । परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः । मृगो भयो रुणास्थाणुः क्रुटकूपविरावणः ॥ यवाकस्थाने वराक इति अङ्गनस्थाने अङ्गुल इति क्रुटकूपविरावणस्थाने कूटकोपरिवारण इति वा पाठः । लक्ष्मीर्मविहरः शम्भुः प्राणशङ्किर्ललाटजः । स्वकोपवारणः शूली चैतन्यं पादपूरणः ॥ मविहरस्थाने हरिहर इति स्वकोपस्थाने सकोप इति वा पाठः । महालक्ष्मीः परं नादो मेघनादो हरिर्म