वाचस्पत्यम्
वर्णात्मन् || पु० वर्ण आत्मा स्वरूपं यस्य । ध्वन्यात्मकाद्वि- लक्षणे अकाराद्यक्षरे शब्दभेदे जटा० ।
शब्दकल्पद्रुमः
वर्णात्मा || [न्] पुं, (वर्णः अक्षरं आत्मा स्वरूपं यस्य ।) शब्दः । इति जटाधरः ॥