वाचस्पत्यम्
वर्णिन् || पु० वर्णोऽस्त्यस्य इनि । १ चित्रकरे २ लेखके ३ ब्रह्म- चारिणि मेदि० । “अथाह वर्णी विदितो महेश्वरः” कुमारः । ४ विप्रादिजातौ च “वर्णिनां हि बधो यत्र” स्मृतिः ।
शब्दकल्पद्रुमः
वर्णी || [न्] पुं, (वर्णा अक्षराणि लेख्यत्वेन सन्त्य- स्येति । वर्ण + इनिः ।)
लेखकः । (वर्णा नील पीतादयः लेख्यत्वेन सन्त्यस्येति । इनिः ।)
चित्र- करः । (यथा, महाभारते । १२ । ६९ । ५७ । “अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् । यवसेन्घनदिग्धानां कारयेत च सञ्चयान् ॥” * ॥
वर्ण + “वर्णाद्ब्रह्मचारिणि ।” ५ । २ । १३४ ॥” इति इनिः ।)
ब्रह्मचारी । यथा, —
“वर्णी स्यात् लेखके चित्रकरेऽपि ब्रह्म- चारिणि ॥” इति मेदिनी । ने, १२७ ॥ (यथा, कुमारे । ५ । ५२ । “सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत् कुतूहलम् ॥”)
वर्णविशिष्टे, त्रि ॥ (वर्णोत्तरपदात् तु “धर्म्मशील- वर्णान्ताच्च ।” ५ । २ । १३२ । इति इनिः स्यात् । यथा, कामन्दकीये नीतिसारे । २ । १९ । “याजनाध्यापने शुद्धे विशुद्धाच्च प्रतिग्रहः । वृत्तित्रयमिदं प्राहुर्मुनयो ज्येष्ठवर्णिनः ॥” ज्येष्ठवर्णिनो ब्राह्मणस्येत्यर्थः ॥)