वाचस्पत्यम्
वर्त्तक || पु० वृत—ण्वुल् । (भारुइ) १ पक्षिभेदे वर्त्तकाप्यत्र । २ अश्वस्य क्षुरे च अमरः । ३ वर्त्तलोहे न० हेमच० ।
शब्दकल्पद्रुमः
वर्त्तकं || क्ली (वर्त्तते इति । वृत् + ण्वुल् ।)
वर्त्त- लोहम् । इति हेमचन्द्रः ॥ विदरि इति भाषा ॥ (पूजके, त्रि । यथा, गो ० रामायणे । २ । १०७ । १२ । “निवेश्य सेनां भरतः पद्भ्यां पादवतां वरः । अभिगन्तु स काकुत्स्थमियेष गुरुवर्त्तकः ॥”)
शब्दकल्पद्रुमः
वर्त्तकः || पुं, (वृत् + ण्वुल् ।)
पक्षिविशेषः । भारै इति भाषा ॥ (यथा, महाभारते । १३ । १११ । १०३ । “कौशिकन्तु ततो हृत्वा नरो जायति वर्त्तकः ॥” अस्य पर्य्यायो गुणाश्च यथा, —
“वर्त्तोको वर्त्तैकश्चित्रस्ततोऽन्या वर्त्तकाः स्मृताः । वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः । सुरुच्यः शुक्रदो बल्यो वर्त्तकाल्पगुणास्ततः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
अश्वश्य क्षुरः । इत्यमरः । ३ । ३ । ११ ॥