शब्दकल्पद्रुमः
वर्त्तका || स्त्री (वर्त्तक + टाप् । “वर्त्तका शकुनौ प्राचाम् ।” इति वार्त्तिकोक्त्या न अत इत्वम् ।) वर्त्तकपक्षी । इत्यमरटीकायां रायमुकुटः ॥