वाचस्पत्यम्
वर्त्तिक || पुंस्त्री वृत—तिकन् । (वटेर) १ विहगभेदे राजनि० स्त्रियां ङीष् । वर्त्मनि वर्त्तते वृत—अच वर्त्तः तत्र साधुः हितो वा ठन् । (भारुइ) २ स्वगे अमरः । ३ अजशृङ्ग्यां स्त्री० राजनि० ४ दीपदशायां स्त्री सा च पञ्चविधा यथा “पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथ वा । शाणजा वादरी वापि फलकोषोद्भवाथ वा । वर्त्तिका- दीपकृत्येषु सदा पञ्चविधा स्मृता” कालिकापु० ६८ अ० ।
शब्दकल्पद्रुमः
वर्त्तिकः || पुं, पक्षिविशेषः । वटेर इति हिन्दी भाषा । तत्पर्य्यायः । वार्त्तिकः २ वर्त्ती ३ गाञ्जिकायः ४ । अस्य मांसगुणाः । “तद्वच्च वार्त्तकं मांसं निर्द्दोषं वीर्य्यपुष्टिदम् ।” तद्वत् तित्तिरवत् । इति राजनिर्घण्टः ॥