शब्दकल्पद्रुमः
वर्त्तिका || स्त्री वर्त्तकपक्षी । इत्यमरः ॥ वर्त्मनि वर्त्तत इत्यच् वर्त्तः । स्वार्थे कः वर्त्तकः । भारै इति ख्यातः । वृतिलतिभ्वां तिकः वर्त्तिका स्त्रीलिङ्गा । वाट्भार इति ख्याता । नाम- द्वयमिदमित्यमरदीपिका । वर्त्तिकेति स्त्रिया- मीत्वप्रतिषेधार्थं द्वयोरुपादानमिति माधवी । रूपभेदप्रदर्शनार्थमिति रायमुकुटः । इति तट्टीका सारसुन्दरी ॥ सा च वटेर पक्षी इति नाम्ना ख्याता । अस्या मांसगुणाः । “वर्त्तिका मधुरा रूक्षा कफमारुतनाशिनी ॥” इति राजवल्लभः ॥ अजशृङ्गी । इति राजनिर्घण्टः ॥ (वर्त्ति + स्वार्थे कन् । टाप् ।)
वर्त्तिः । वाति इति शलिता इति पलिता इति च भाषा । इत्युणादि- कोषः ॥ * ॥
सा पञ्चविधा । यथा, —
“पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा । शालजा वादरी वापि फलकोषोद्भवाथवा । वर्त्तिका दीपकृत्येषु सदा पञ्चविधा स्मृता ॥” इति कालिकापुराणे ६८ अध्यायः ॥