वाचस्पत्यम्
वर्त्तिष्णु || त्रि० वृत—इष्णुच् । वर्त्तमशीले ।
शब्दकल्पद्रुमः
वर्त्तिष्णुः || त्रि (वर्त्तते इति । वृत + “अलङ्कृञ् निराकृञ्प्रजनोत्पचोत्पतन्मदरुच्यपत्रपवृतुवृधु- सहचर इष्णुच् ।” ३ । २ । १३६ । इति इष्णुच् ।)
वर्त्तनशीलः । तत्पर्य्यायः । वर्त्तनः । इत्यमरः । ३ । १ । २९ ॥ वर्त्ती । इति हेम- चन्द्रः । ३ । ५३ ॥ (यथा, भट्टौ । ५ । १ । “निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् । उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥”)