वाचस्पत्यम्
वर्त्मन् || न० वृत—मनिन् । १ पथि अमरः २ आचारे “आ मनोर्वर्त्मनः” रघुः । ३ नेत्रच्छदे च मेदि० । अक्षिशब्दे ४५ पृ० दृश्यम् । वर्त्मलक्षणं तद्गतरोगभेदाश्च सुश्रुते उक्ता यथा ||“द्व्यङ्गुलं सर्वतः सार्द्धं भिषग्नयनबुद्वुदम् । सुवृत्त गोस्तनाकारं सर्वभूतगुणोद्भवम् । पलं भुवोऽग्नितो रक्तं वातात्कृष्णं सितं जलात् । आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्वुदे । दृष्टिञ्चात्र तथा वक्ष्ये यथाब्रूया- द्विशारदः । नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते । कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः । मण्ड- लानि च सन्धींश्च पटलानि च लोचने । यथाक्रमं- विजानीयात् पञ्चषट् च षडेव च । पक्ष्मवर्त्मश्वेतकृष्ण० दृष्टीनां मण्डलानि तु । अनुपूर्वन्तु ते मध्याश्चत्वारो- ऽन्त्या यथोत्तरम् । पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतो- ऽपरः । शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः । ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः । द्वे वर्त्मपटले विद्याच्चत्वार्य्यन्यानि चाक्षिणि । जायन्ते तिमिरं येषु व्याधिः परमदारूणः ।” “पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः । सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः । विवर्द्ध्य- मांसं रक्तञ्च तदः वर्त्मव्यपाश्रयान् । विकाराञ्जनय- न्त्याशु नामतस्तान्निबोधत । उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा । तथार्शोवर्त्मशुष्कार्शस्तथैवा- ञ्जननामिका । बहलं वर्व्य यच्चापि व्याधिर्वर्त्माव- बन्धकः । क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च । प्रक्लिक्षमपरिक्लिन्नं वर्त्मवातहतन्तु यत् । अर्वुदं निमि- पश्चापि शोणितार्शश्च यत्स्मृतम् । लगणो विषनामा च० वक्ष्मकोपस्तथैव च । एकविंशतिरित्येते विकारा वर्त्म- संश्रयाः । नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे । पिडकाभ्यन्तरमुखी वाह्याधोवर्त्मसंश्रया । विज्ञेयोत्- सङ्गिनी १ नाम तद्रुपपिडकान्विता । कुम्भीकवीम- प्रतिमाः पिडकाः पक्ष्मवर्त्मनोः । आध्मायन्ते तु भिन्ना या कुम्भीकपिडका २ स्तु ताः । कण्डूस्रावान्वितां गुर्व्यो रक्तसर्षपसन्निभाः । पिडकाश्च रुजावत्यः पोथक्य ३ इति संज्ञिताः । पिडकामिः सुसूक्ष्माभिर्घनाभिरभिसंवृता । पिडका या खरा स्थूला सा ज्ञेया वर्त्मशकेरा ४ । सूक्ष्माः खराश्च वर्त्मस्थास्तदर्धोवर्त्म ५ कीर्त्त्यते । दीर्घो- ऽङ्कुरः खरः स्तब्धा दारुणो वर्त्मसम्भवः । व्याविरेष समाख्यातः शुष्कार्श ६ इति संज्ञितः । दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा । मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ७ । वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः । सवर्णाभिः समाभिश्च विद्याद्वहलवर्त्म ८ तत् । कण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः । स समं छादयेदक्षि भवेद्बन्धः ९ स वर्त्मनः । मृद्वल्पवेदनं ताम्रं तद्वर्त्म सममेव च । अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म १० तदा दिशेत् । क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा । तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम् ११ । यद्वर्त्म बाह्य तोऽन्तश्च श्यावं शूनं सवेदनम् । दाहकण्डूपरिक्लेदि श्या- ववर्त्मेति १२ तन्मतम् । अरुजं बाह्यतः शूनमन्तःक्लिन्नं स्रवत्यपि । कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म १३ तदुच्यते । यस्य धौतानि धौतानि सम्बन्ध्यन्ते पुनः पुनः । वत्मा- न्यपरिपक्वानि विद्यादक्लिन्नवर्त्म १४ तत् । विमुक्तसन्धि निश्चेष्टं वर्त्म यन्न निमील्यते । एतद्वातहतं १५ विद्यात् सरुजं यदि वाऽरुजम् । वर्त्मान्तरस्थं विषमं ग्रन्थिभूत- मवेदनम् । विज्ञेयमर्बुदं १६ पुंसां सरक्तमवलम्बितम् । निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः । चालये दतिवर्त्मानि निमेषः १७ स गदो मतः । छिन्नाश्छिन्ना विवर्द्धन्ते वर्त्मस्था मृदवोऽङ्कुराः । दाहकण्डूरुजो- पेतास्तेऽर्शःशोणितसम्भवाः १८ । अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः । सकण्डूः पिच्छिलः कोलप्रमाणो लगण १९ स्तु सः । शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छद्रै समन्वितम् । विषमन्तर्जल इव विषवर्त्मेति २० तन्मतम् । पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खराणि च । निर्व र्त्तयान्त पक्ष्माणि तैर्जुष्टञ्चाक्षि दूयते । उत्पाटितैः पुनः शान्तिः पक्ष्मभिश्चोपजायते । वातातपानलद्वेषीं पक्ष्मकोपः २१ स उच्यते ।” तच्चिकित्सा तत्र दृश्या ।
शब्दकल्पद्रुमः
वर्त्म || [न्] क्ली, (वर्त्ततेऽनेनास्मिन् वेति । वृत् + मनिन् ।)
पन्थाः । इत्यमरः । २ । १ । १५ ॥ (यथा, ऋग्वेदे । १ । ८५ । ३ । “गोमातरो यच्छुभयन्ते अञ्जिभि- स्तनूषु शुभ्रा दधिरे विरुक्मतः । वाधन्ते विश्वमभिमातिनमप- वर्त्मान्येषामनुरीयते घृतम् ॥” “वर्त्मानि मार्गाननुसृत्य ।” इति तद्भाष्ये सायणः ॥ यथा च रघौ । २ । २० । “पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्मपत्न्या । तदन्तरे सा विरराज धेनु- र्दिनक्षपामध्यगतेव सन्ध्या ॥”)
नेत्रच्छदः । इति मेदिनी । ने, १२८ ॥ (यथा, अश्ववैद्यके । २ । १० । “सितासितञ्च तन्मध्ये नेत्रयोर्म्मण्डलं हि तत् । प्रच्छादनं भवेद् वर्त्म चाक्षिकूटमतः परम् ॥”)