संस्कृत-शब्दकोशः

वर्त्मन् वर्द्धक

वर्द्ध

वाचस्पत्यम्

वर्द्ध ||‍ छेदने पूरणे च चु० उभ० सक० सेट् । वर्द्धयति ते अववर्द्धत् त ।


वाचस्पत्यम्

वर्द्ध ||‍ पु० वृध—अच् । १ ब्राह्म्याम् (वामनहाटि) जटा० वर्द्धभावे अच् । २ पूरणे ३ छेदे च ।


शब्दकल्पद्रुमः

वर्द्ध || क पूर्त्तिच्छिदोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
क, वर्द्धयति । वृघ क दीप्तावित्यत्रैव पूर्त्तिच्छिदोश्च पाठादिष्टसिद्धा- वस्य पाठश्चुरादिभ्यो ञेरनित्यतां बोधयति । तेन कदाचित् ञेरप्राप्तौ यगादौ वृघ क इत्यस्य वृध्यते इत्यादि अस्य तु वर्द्धते इत्यादिभेदः । इति दुर्गादासः ॥



Correction: