वाचस्पत्यम्
वर्द्धनी || स्त्री वर्द्ध्यतेऽनया वृध—णिच्—ल्युट् ङीप् । १ संमार्ज- न्याम् २ खट्यां मेदि० । ३ सनालपात्रभेदे च (वद्ना) जटा० ।
शब्दकल्पद्रुमः
वर्द्धनी || स्त्री घटी । इति मेदिनी । ने, १२३ ॥ संमार्ज्जनी । इति हेमचन्द्रः । ४ । ८२ ॥ सनालपात्रविशेषः । वद्ना इति भाषा । यथा, “आलुः स्त्री कर्करी पारी वर्द्धनी च लल- न्तिका ॥” इति जटाधरः ॥ * ॥
प्रतिष्ठादिकर्म्मणि तत्प्रयोजनं यथा, —
“प्रतिष्ठा यस्य देवस्य तदाख्यं कलसं न्यसेत् । ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च वर्द्ध- नीम् ॥ कलसं वर्द्धनीञ्चैव ग्रहान् वास्तोष्पतिं तथा । आसने तानि सर्व्वाणि प्रणवाख्यं जपेद्गुरुः ॥ सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मन वेष्टितम् । सर्व्वौषधीगन्धलिप्तं पूजयेत् कलसं गुरुः ॥ देवन्तु कलसे पूज्य वर्द्धन्या वस्त्रमुत्तमम् । वर्द्धन्या तु समायुक्तं कलसं भ्रामयेदनु ॥ वर्द्धनीं धारया सिञ्चन्नग्रतो धारयेत्ततः । अभ्यर्च्च्य वर्द्धनीकुम्भं स्थण्डिले देवमर्च्चयेत् ॥” इति गारुडे ४८ अध्यायः ॥