शब्दकल्पद्रुमः
वर्द्धनं || क्ली (वृध् च्छेदपूर्त्त्योः + ल्युट् ।)
छेदनम् । (यथा, मनुः । २ । २९ । “प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”)
वृद्धिः । इति मेदिनी । ने, १२३ ॥
शब्दकल्पद्रुमः
वर्द्धनः || त्रि (वर्द्धयतीति । वृध् + नन्द्यादित्वात् ल्युः । यद्वा, वर्द्धते तच्छील इति । वृध् पूर्त्तौ + “अनुदात्तेतश्चेति ।” ३ । २ । १४९ । इति युच् ।)
वर्द्धिष्णुः । इत्यमरः । ३ । १ । २८ ॥ (यथा, ऋग्वेदे । ३ । ३२ । १२ । “यज्ञो हि त इन्द्र वर्द्धनो भूदुत प्रियः सुतसोमो मियेधः ॥”)