संस्कृत-शब्दकोशः

वर्धन वर्धमानक

वर्धमान

शब्दकल्पद्रुमः

वर्द्धमानः || पुं, (वर्धते इति । वृध वृद्धौ + शानच् ।)
एरण्डवृक्षः । इत्यमरः । २ । ४ । ५१ ॥ (अस्य पर्य्यायो यथा, —
“शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः । वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पशुभेदः । शरावः । (यथा, महाभारते । ७ । ८० । १९ । “तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डु- नन्दनः । हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् । स्वस्तिकान् वर्द्धमानांश्च नन्द्यावर्त्तांश्च काञ्च- नान् ॥” अस्मिन्नर्थे क्लीवलिङ्गेऽपि दृश्यते । यथा, तत्रैव । १३ । ६४ । १२ । “मघासु तिलपूर्णानि वर्द्धमानानि मानवः । प्रदाय पुत्त्रपशुमानिह प्रेत्य च मोदते ॥” तथा च सुश्रुते सूत्रस्थाने २९ अध्याये । “स्त्री पुत्त्रिणी सवत्सा गौर्वर्द्धमानमलङ्कृता । कन्या मत्साः फलं चामं स्वस्तिकं मोदका दधि ॥”)
विष्णुः । इति मेदिनी । ने, २०८ ॥ (यथा, महाभारते । १३ । १४९ । ४१ । “वर्द्धनो वर्द्धमानश्च विविक्तः श्रुतिसागरः ॥”)
जिनविशेषः । तत्पर्य्यायः । वीरः २ चरमतीर्थ- कृत् ३ महावीरः देवाय्यः ५ अज्ञातनन्दनः ६ । इति हेमचन्द्रः । १ । ३० ॥ धनिनां गृहविशेषः । यथा, —
“स्वस्तिको वर्द्धमानश्च नन्द्यावर्त्तादयोऽपि च ॥” इति हलायुधः ॥ (यथा, बृहत्संहितायाम् । ५३ । ३३ । “द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्तत- श्चान्यः । तद्वच्च वर्द्धमाने द्वारन्तु न दक्षिणं कार्य्यम् ॥”)
स्वनामख्यातदेशः । यथा, —
“प्राच्यां मागधशोणौ च वारेन्द्रीगौडराढकाः । वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः ॥” इति ज्योतिस्तत्त्वे कूर्म्मचक्रम् ॥ (भद्राश्ववर्षस्य कुलपर्व्वतविशेषः । यथा, मार्क- ण्डेये । ५९ । १२ । “विशालः कम्बलः कृष्णो जयन्तो हरिपर्व्वतः । विशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः ॥” वृद्धिविशिष्टे, त्रि ॥)



Correction: