संस्कृत-शब्दकोशः

वर्धमान वर्धापन

वर्धमानक

शब्दकल्पद्रुमः

वर्द्धमानकः || त्रि (वर्द्धमान + स्वार्थे संज्ञायां वा कन् ।)
वृद्धिविशिष्टः । पुं, शरावः । इत्यमरः । २ । ९ । ३२ ॥ (यथा, महाभारते । १४ । ६५ । १४ । “भृङ्गाराणि कटाहानि कलसान् वर्द्धमान- कान् ॥”)
स्वार्थे कप्रत्यये एरण्डवृक्षश्च ॥ (आरात्रिकम् । इति महाभारतटीकायां नीलकण्ठः ॥ यथा, महाभारते । ७ । ५५ । ४ । “नटनर्त्तकगन्धर्व्वैः पूर्णकैर्व्वर्द्धमानकैः । नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥”)



Correction: