शब्दकल्पद्रुमः
वर्द्धितं || त्रि (वृध् + क्तः ।)
प्रसृतम् । छिन्नम् ॥ पूरितम् । इति मेदिनी । ते, १४८ ॥ (परि- पूर्णम् । यथा, मनुः । ३ । २२४ । “पाणिभ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् । विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत ॥” “अन्नस्येति तृतीयार्थे षष्ठी । वर्द्धितं पूर्णं पिठ- रादिपात्रम् ।” इति तट्टीकायां कुल्लूकभट्टः ॥ वृध + णिच् + क्तः । वृद्धिं प्रापितम् । यथा, भागवते । ४ । २३ । १ । “दृष्ट्वात्मानं प्रवयसमेकदा वैण्य आत्मवान् । आत्मना वर्द्धिताशेषस्वानुसर्गः प्रजापतिः ॥”)