शब्दकल्पद्रुमः
वर्द्धिष्णुः || त्रि (वर्द्धते इति । वृध + “अलङ्कृ- ञिति ।” ३ । २ । १३६ । इति इष्णुच् ।)
वर्द्धनशीलः । तत्पर्य्यायः । वर्द्धनः २ । इत्य- मरः । ३ । १ । २८ ॥ (यथा, भट्टिः । ५ । १ । “निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् । उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥”)