संस्कृत-शब्दकोशः

वर्ध्र वर्फ

वर्पस्

वाचस्पत्यम्

वर्पस् ||‍ न० वृ—असुन् पुक् । रूपे निघण्टुः ।


शब्दकल्पद्रुमः

वर्पः || [स्] क्ली, (वृणीते संपृक्तं भवतीति । वृ + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा० ४ । २०० । इति असुन् पुडागमश्च ।)
रूपम इत्युणादिकोषः ॥ (यथा, ऋग्वेदे । १ । १४० । ५ । “आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ॥” स्तोत्रम् । यथा, तत्रैव । १ । ३९ । १ । “कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कंह धूतयः ॥” “कस्य यजमानस्य क्रत्वा क्रतुना सङ्गच्छध्व इति शेषः । तथा कस्य यजमानस्य वर्पसः स्तोत्रेण सङ्गच्छद्धे ॥” इति तद्भाष्ये सायणः ॥)



Correction: