संस्कृत-शब्दकोशः

वर्महर वर्मित

वर्मि

वाचस्पत्यम्

वर्म्मि ||‍ पु० वृ—बा० मिन् । (वानि) मत्स्यभेदे राजनि० ।


शब्दकल्पद्रुमः

वर्म्मिः || पुं, मत्स्यविशेषः । वानि इति भाषा । अस्य मांसगुणाः । गुरुत्वम् । वृष्यत्वम् । कषाय- त्वम् । रक्तपित्तनाशित्वञ्च । इति राजवल्लभः ॥ (यथा, सुश्रुते । १ । १३ । “वर्म्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्व्वुरा ॥” तथास्य गुणा यथा, —
“वर्म्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो लघुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)



Correction: