वाचस्पत्यम्
वर्वणा || स्त्री वरिति वणति शब्दायते वण—अच् । (भणभणे) मक्षिकाभेदे अमरः । अयमौष्ठ्यादिरित्यर्थे ।
शब्दकल्पद्रुमः
वर्व्वणा || स्त्री (वरित्यव्यक्तशब्देन वणति शब्दायते इति । वण शब्दे + अच् । टाप् ।)
नील- मक्षिका । इत्यमरः । २ । ३ । २७ ॥ नीला- कारवर्णा मक्षिका वर्व्वणा । भणभणिया इति ख्याता । मल्लिकाख्यायां इत्येके । वरिति वणति वर्व्वणा । व्रण वण भण शब्दे पचादित्वादन् आप् । किंवा वृणीते पूतिद्रव्यं भजते इति वृङो विचि वर् । वणतेरणि वणा ततः कर्म्म- धारये वर्व्वणा । इति तट्टीकायां भरतः ॥