संस्कृत-शब्दकोशः

वर्वणा वर्वरक

वर्वर

वाचस्पत्यम्

वर्वर ||‍ न० वृ—अरच् वुट्च् । १ हिङ्गुले २ पीतचन्दने ३ गन्धरसे च राजनि० । ४ पामरे ५ मूर्खे च त्रि० । “णत्वमिच्छन्ति वर्वरा” इत्युद्भटः । ६ केशभेदे (वाउरी) ७ देशभेदे कृष्णार्जके (कालवावुइ) वृक्षे च पु० राजनि० । ९ मक्षिकाभेदे पुंस्त्री० शब्दर० (वावुइ) १० वृक्षेस्त्री टाप ङीप् वा “वर्वरी करवी तुङ्गी खरदुग्धाजगन्धिका । पर्णासस्तत्र कृष्णे तु कठिञ्जरकुढेरकौ । कालसारः करालश्च मलूकः कृष्णमल्लिका । तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटी- पञ्चस्ततीऽपरः । वर्वरीत्रितयं रूक्षं शीतं कटु विदाहि च । तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च । पित्तलं कफवाताम्रदद्रुकृमिविषापहम्” भावप्र० । संज्ञायां कन् । वर्वरिका चन्दनभेदे पुष्पभेदे स्त्री मेदि० ।


शब्दकल्पद्रुमः

वर्व्वरं || क्ली (वृणुते वरयति नानागुणान् इति । वृ + “कॄगॄशॄवृवचिभ्यः ष्वरच् ।” उणा० २ । १२३ । इति ष्वरच् ।)
हिङ्गुलम् । पीतचन्द- नम् । वोलम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

वर्व्वरः || पुं, (वृणोति दोषानिति । वृ + ष्वरच् ।)
पामरः । स च नीचजातिः । केशः । वावरी इति भाषा । चक्रलः । देशविशेषः । (तद्देश- वासिनि, पुंभूम्नि । यथा, मार्कण्डेये । ५७ । ३८ । “काम्बोजा दरजाश्चैव वर्व्वरा हर्षवद्धनाः ॥”)
फञ्जिका । इति मेदिनी । रे, २०९ ॥ वृक्ष- विशेषः । काल वावुइ इति भाषा । तत्प- र्य्यायः । सुमुखः २ गरघ्नः ३ कृष्णवर्व्वरकः ४ सुकन्दजः ५ गन्धपत्रः ६ पूतगन्धः ७ सुवा- हकः ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । सुगन्धित्वम् । वान्तिविसर्पविषत्वम्दोषनाशि- त्वञ्च । इति राजनिर्घण्टः ॥



Correction: