शब्दकल्पद्रुमः
वर्व्वरकं || क्ली (वर्व्वर + स्वार्थे कन् ।)
चन्दन- भेदः । तत्पर्य्यायः । वर्व्वरोत्थम् २ श्वेतवर्व्व- रकन् ३ शीतम् ४ सुगन्धिः ५ पित्तारिः ६ सुरभिः ७ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । कफमारुतपित्तकुष्ठकण्डूव्रणनाशित्वम् । विशेषाद्रक्तदोषजित्त्वञ्च । इति राजनिर्घण्टः ॥