वाचस्पत्यम्
वर्वरीक || पु० वृ—ईकन् फुर्फुरीका० नि० । १ ब्राह्मणयष्टिवृक्षे २ कुटिलकेशे उणा० । ३ अजगन्धिकायां (वावुइतुलसी) शब्दच० ४ महाकाले हेमच० ।
शब्दकल्पद्रुमः
वर्व्वरीकः || पुं, (वृणुते इति । वृञ् वरणे + “शॄपॄ- वृञां द्वे रुक् चाभ्यासस्य ।” उणा० ४ । १९ । इति ईकन् द्विर्वचनं अभ्यासस्य रुगागमश्च ।)
ब्राह्मणयष्टिकावृक्षः । कुटिलकुन्तलः । इत्यु- णादिकोषः ॥ अजगन्धिका । वावुइ तुलसी इति भाषा । इति शब्दचन्द्रिका ॥ महा- कालः । इति हेमचन्द्रः ॥ तत्र पवर्गीयबका- रादौ पठितोऽयं किन्तु मेदिन्यां चर्च्चरीकशब्द- स्यायमर्थः ॥