संस्कृत-शब्दकोशः

वर्वुर वर्व्वरा

वर्वूर

शब्दकल्पद्रुमः

वर्व्वूरः || पुं, (वृ + बाहुलकात् वूरच् ।)
वृक्ष- विशेषः । वावला इति भाषा । तत्पर्य्यायः । युगलाक्षः २ कण्टालुः ३ तीक्ष्णकण्टकः ४ गोशृङ्गः ५ पंक्तिबीजः ६ दीर्घकण्टः ७ । कफा- न्तकः ८ दृढबीजः ९ अजभक्षः १० । अस्य गुणाः । कषायत्वम् । उष्णत्वम् । कफकासाम- रक्तातिसारपित्तदाहाशोनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: