संस्कृत-शब्दकोशः

वर्वूर वर्व्वरी

वर्व्वरा

शब्दकल्पद्रुमः

वर्व्वरा || स्त्री (वर्व्वर + टाप् । पक्षे षित्वात् ङीष् ।)
क्षुद्रवृक्षविशेषः । वायुइ इति भाषा । तत्पर्य्यायः । कवरी २ तुङ्गी ३ खरपुष्पा ४ अजगन्धिका ५ अजगन्धा ६ कवरा ७ खरपुष्पिका ८ । इत्यमरशब्दरत्ना- वल्यौ ॥ तस्याः प्रकारा गुणाश्च ।


शब्दकल्पद्रुमः

वर्व्वरा || स्त्री (वर्व्वरपुष्पस्येव आकृतिरस्त्यस्या इति । वर्व्वर + अच् । टाप् ।)
पुष्पभेदः । शाकभेदः । इति मेदिनी । रे, २०९ ॥ (वर्व्व इति शब्दं रातीति । रा + कः ।)
मक्षिकाभेदः । इति शब्दरत्नावली ॥



Correction: