वाचस्पत्यम्
वर्ष || पु० वृष—भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु- द्वीपांशभेदे पुंन० अमरः । “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण् मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल नन्धमादनः । नीलशैलनिषधावधो च तावन्तरालमन योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतु- मालकमिलाकलाविदः । निषधनीलसुगन्धसुमाल्यकैरल- मिलावृतमावृतमावभौ । अमरकेलिकुलायसमाकुलं रुचि- रकाञ्चनचित्रमहीतलम्” सि० शि० । “अत्र भूगोलस्थार्धमुत्तरं जम्बूद्दीपम् । तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः । तत्र लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं मूप- रिधिचतुर्थाशान्तरे किल कथितम् । तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति । तस्यात्तरे हेभकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे निषधः । तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः । तत्रादौ भारतवर्षम् । तदुत्तरं किन्नरवर्षम् । ततो हरिवर्षमिति । एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वेतगिरिः । ततो नीलगिरिरिति । तेऽपि सिन्धु- पर्यन्तदैर्घ्याः । तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् । तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ यम- कोटेरुत्तरतौ माल्यबान् नाम गिरिः । स तु निषधनी- लपर्यन्तदैर्घ्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम । एवं रोमकादुत्तरतो गन्धमादनः । तस्य जलधेश्च मध्ये केतुमालवर्षम् । एवं निषधनीलमाल्यवद्गन्धमादनैरावृत- मिलावृतं नाम नवमं वर्षम् । सा स्वर्गभूमिः । अतस्तत्र देवक्रोडागृहाणि” । ३ द्वादशमासात्मके काले ४ जम्बुद्वीपे च पु० मेदि० । कर्त्तरि अच् । ५ मेष्ठे पु० हेमच० ६ प्रभ- वादिषु षष्टिवतसरेषु पु० ।
शब्दकल्पद्रुमः
वर्षं || पुं, क्ली, (वृष्यते इति । वृषु सेचने + अज्विधौ भयादीनामुपसंख्यानमित्यच् । यद्वा, व्रियते प्रार्थ्यते इति । वृ + “वृवॄवदिहनिकमिक- षिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।)
वृष्टिः । (यथा, मनुः । ४ । १०३ । “विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥” जम्बुद्वीपांशः । वत्सरः । इत्यमरः ॥ (यथा, मनुः । ५ । ५३ । “वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥”)
जम्बुद्बीपः । इति मेदिनी । षे, २४ ॥ (वर्ष- तीति । वृष् + पचाद्यच् ।)
मेघः । इति हेम- चन्द्रः । २ । ७९ ॥ * ॥
अथ सप्तद्बीपानां वर्ष- वर्णनम् । तत्र जम्बुद्वीपस्य नववर्षविभागो यथा । यत एव कृताः सप्त भुवो द्वीपा जम्बुप्लक्ष- शाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः । तेषां परिमाणं पूर्ब्बस्मात् पूर्ब्बस्मादुत्तरोत्तरो यथा- संख्यं द्विगुणमानेन बहिः समन्तत उप- कॢप्ताः । क्षारादेक्षुरसोदसुरोदघृतोदक्षीरोद- दधिमण्डोदशुद्धोदाः सप्त जलधयः । सप्तद्बीप- परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्व्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परित उपकल्पिताः । तेषु पुनर्ज्जम्ब्वाह्वादिषु वर्हिष्मती- पतिरनुवृत्तानात्मजानग्नीध्रेध्मजिह्वयज्ञबाहु- हिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथासंख्येन एकैकस्मिन्नेकमेवाधिपतिं विदधे । तस्य ह वा एते श्लोकाः । “प्रियव्रतकृतं कर्म्म कोऽनुकुर्य्याद्विनेश्वरम् । यो नेमिनिम्नरकरोच्छायां घ्नन् सप्तवारि- धीन् ॥” छायां घ्नन् तमो निरस्यन् । “भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥” एवं पितरि संप्रवृत्ते तदनुशासने वर्त्तमान आग्नीध्रो जम्बुद्बीपौकसः प्रजा औरसवद्धर्म्मा- वेक्षमाणः पर्य्यगोपायत् । तदुपलभ्य भगवानादि- पुरुषः सदसि गायन्तीं पूर्ब्बचित्तिं नामाप्सरस- मभियापयामास । तस्यामुह वात्मजान् स राजवर्य्य आग्नीध्रो नाभिकिंपुरुषहरिवर्षेला- वृतरम्यक-हिरण्मय-कुरुभद्राश्वकेतुमालसंज्ञान् नव पुत्त्रानजनयत् । आग्नीध्रसुतास्ते मातु- रनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाविभागं जम्बु- द्वीपवर्षाणि बुभुजुः । यास्मन्नव वर्षाणि नव- योजनसहस्रायामानि अष्टभिर्मर्य्यादागिरिभिः सुविभक्तानि भवन्ति । एषां मध्ये इला- वृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायाम- समुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडश- साहस्रं तावतान्तर्भूम्यां प्रविष्टः । उत्तरोत्तरे- णेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्र- योजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्वस्मादुत्तरो- त्तरो दशांशाधिकांशेन दैर्घ्य एवाह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयः । अयुतयोज- नोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा- संख्यम् । तथैवेलावृतमपरेण पूर्ब्बेण च माल्य- वद्गन्धमादनावानीलनिषधायतौ द्विसहसं पप्र- थतुः केतुमालभद्राश्वयोः सीमानं विदधाते । भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः । मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोण्वः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्ष- गिरिः पारिपात्रो द्रोणश्चित्रकूटो गोवर्द्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसंख्याताः । एतासामपो भारत्यः प्रजानामभिरेव पुनन्ती- नामात्मना चोपस्पृशन्ति । चन्द्रवशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेण्णा पयस्विनी शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्णा भीमरथी गोदावरी निर्व्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्म्मदा चर्म्मण्वती अन्धः शोनश्च नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृशद्वती गोमती सरयुरोघवती षष्ठवती सप्तवती सुषोमा शतद्रुश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः । अस्मिन्नेव वर्षे पुरुषैर्लब्ध- जन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्म्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्वेण सर्व्वा ह्येव सर्व्वेषां विधीयन्ते । यथावर्णविधानमपवर्गश्च भवति ॥ १ ॥ * ॥
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते । प्लक्षो जम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितो यत्राग्नि- रूपास्ते सप्तजिह्वः । तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्य सप्तवर्ष- नामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगे- नोपरराम । अशिवं वयसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि । तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः । मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा नृमणा आङ्गीरसी सावित्री सुभाता ऋचम्भरा सत्यम्भरेति महानद्यः ॥ २ ॥ * ॥
प्लक्षस्तु समानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्बिगुणविशालः समानेन सुरोदेना- वृतः परिवृङ्क्ते । यत्र ह वै शाल्मली प्लक्षा- यामा । तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञ- वाहः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत् । सुरोचनं सौमनस्यं रमणकं देववर्हं पारिभद्रमाप्यायनमभिज्ञातमिति । तेषु वर्षा- द्रयो नद्यश्च सप्तैवाभिज्ञाताः । सुरसः शतशृङ्गो वामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रश्रुति- रिति । अनुमती सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ ३ ॥ * ॥
एवं सुरो- दाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथा पूर्ब्बः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृत- स्तद्द्वीपाख्यापनो ज्वलन इवापरः सुशष्प- रोचिषा दिशो विराजयति । तद्द्वीपपतिः प्रैय- व्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्त्रेभ्यो यथाभागं विभज्य स्वयं तप आति- ष्ठत् । वसुवसूदानदृढरुचिनाभिगुप्तसत्यव्रतविप्र- नामदेवनामभ्यस्तेषां वर्षेषु सीमागिरयो नद्य- श्चाभिज्ञाताः सप्तैव । वभ्रुश्चतुःशृङ्गः कपिल- श्चित्रकूटो देवानीक ऊर्द्ध्वरोमा द्रविण इति । रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ ४ ॥ * ॥
तथा बहिः क्रौञ्चद्वीपो द्बिगुणः समानेन क्षीरोदेन परित उपकॢप्तः । वृतो यथा कुशद्बीपो वृतो- देन । यस्मिन् क्रौञ्चनामा पर्व्वतराजो द्बीप- नामनिर्व्वर्त्तक आस्ते । तस्मिन्नपि प्रैयव्रतो घृत- पृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्त्रनामसु सप्त ऋक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम । आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितानो वनस्पतिरिति घृतपृष्ठसुताः । तेषां वर्षगिरयः सप्तैव नद्यश्चाभिख्याताः । शुक्लो वर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनः सर्व्वतोभद्र इति । अभया अमृतौघा आर्य्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ ५ ॥ * ॥
एवं परस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन दधिमण्डोदेन परीतः । यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्रव्यपदेशकः । यस्य हि महा- सुरभिगन्धस्तद्द्वीपमनुवासयति । तस्यापि प्रैय- व्रत एवाधिपतिर्नाम्ना मेधातिथिः । सोऽपि विभज्य सप्तवर्षाणि पुत्त्रनामानि तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहु- रूपविश्वाधारसंज्ञान् निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश । एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शतकेशरः सहस्र- स्रोता देवपालो महानस इति । अनघा आयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्र- श्रुतिर्निजधृतिरिति ॥ ६ ॥ * ॥
एवमेव दधिमण्डो- दात् परतः पुष्करद्वीपस्ततो द्विगुणायामः सम- न्तत उपकॢप्तः समानेन स्वादूदकेन समुद्रेण बहिरावृतः । तद्द्वीपमध्ये मानसोत्तरनाभैक एवार्व्वाचीनपराचीनवर्षयोर्मर्य्यादाचलः अयुत- योजनोच्छ्रायायामः । यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानाम् । यदुपरिष्टात् सूर्य्यरथस्य मेरुं परिक्रामतः संवत्सरात्मकं चक्रं देवाहोरात्राभ्यां परिभ्रमति । तद्द्वीपस्याधि- पतिः प्रैयव्रतो वीतिहोत्रो नाम तस्यात्मजौ रमणकधातकनामानौ वर्षपती नियुज्य स्वयं पूर्ब्बजवद्भगवत्कर्म्मशील आस्ते । तद्बर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्म्मकेण कर्म्मणाराध- यन्ति ॥ ७ ॥ इति श्रीभागवते ५ स्कन्धे १ । २ । १६ । १९ । २० अध्यायाः ॥ * ॥
अपि च । “कन्ये द्बे दश पुत्त्राश्च सम्राट् कुक्षिश्च ते उभे । ते सर्व्वे भ्रातरः शूराः प्रजापतिसमा दश ॥ अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्व्वपुः । ज्योतिष्मान् द्युतिमान् हव्यः सवनो मित्र एव वा । मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् । द्बीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे ॥ जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः स्मृतः ॥ शाल्मले तु वपुष्मन्तं ज्योतिप्मन्तं कुशाह्वये । क्रौञ्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम् ॥ पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् । महावीतो धातुकिश्च पुष्कराधिपतेः सुतौ ॥ द्विधा कृत्वा ततो वर्षं पुष्करे स न्यवेशयत् । हव्यस्य पुत्त्राः सप्तासन्नामतस्तान्निबोध मे ॥ जलदश्च कुमारश्च सुकुमारो मणीवकः । कुशोत्तरोऽथ मोदाकी सप्तमस्तु महाद्रुमः ॥ तन्नाम ङ्कानि वर्षाणि शाकद्वीपे चकार सः । तथा द्युतिमतः सप्त पुत्त्रांश्चापि निबोध मे ॥ कुशलो मनोऽनुगश्चोष्णः प्रधानश्चान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तमस्तु तथावरः ॥ तेषां स्वनामधेयानि क्रौञ्चद्बीपे तथाभवन् । * । ज्योतिष्मतः कुशद्वीपे पुत्त्रनामाङ्कितानि वै ॥ तत्रापि सप्त वर्षाणि तेषां नामानि मे शृणु । उद्गिजं धेनुमच्चैव द्वैरथं लम्बमेव च ॥ धृतिमत् प्रभाकरञ्चैव कपिलञ्चापि सप्तमम् । वपुष्मतः सुताः सप्त शाल्मलेशस्य वाभवन् ॥ श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव महीध्रः णुप्रभस्तथा ॥ तथैव शाल्मले तेषां स्वनामानि तु सप्त वै । सप्तमेधातिथेः पुत्त्राः प्लक्षद्वीपेश्वरस्य ये ॥ तेषां नामाङ्कितैर्द्वीपैस्तद्वर्षं सप्तभिर्वृतम् । पूर्ब्बं शान्तभयं वर्षं शिशिरन्तु सुखोदयम् ॥ आनन्दञ्च शिवञ्चैव क्षेमकञ्च तथा ध्रुवम् । प्लक्षद्वीपादियुक्तेषु शाकद्बीपान्तिकेषु च ॥ ज्ञेयः पञ्चसु धर्म्मोऽत्र वर्णाश्रमविभागजः । * । यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम् ॥ सुखमायुश्च रूपञ्च बलं धर्म्मश्च नित्यशः । पञ्चस्वेतेषु वषषु सर्व्वं साधारणं स्मृतम् ॥ * ॥
आग्नीध्राय पिता पूर्ब्बं जम्बुद्वीपं ददौ द्बिज । तस्य पुत्त्रा बभूवुर्हि प्रजापतिसमा नव ॥ ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः । हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ॥ रम्यश्च पञ्चमः पुत्त्रो हिरण्यः षष्ठ उच्यते । कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ॥ नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः । * । यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम् ॥ तेषां स्वभावतः सिद्धिः सुखप्राया ह्यपत्नतः । विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च ॥ धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः । न वै चतुर्युगावस्था नाश्रमाः क्रतवो न च ॥ * ॥
आग्नीध्रसूनोर्नाभेश्च ऋषभोऽभूत् सुतो द्बिज । ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः । सोऽभिषिच्यर्षभः पुत्त्रं महाप्रव्रज्यमास्थितः । तपस्तेपे महाभागः पुलहाश्रमसंश्रयः ॥ * ॥
हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता । तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः ॥ भरतस्याप्यभूत् पुत्त्रः सुमतिर्नाम धार्म्मिकः । तस्मिन् राज्यं समावेश्य भरतोऽपि बनं ययौ ॥ एतेषां पुत्त्रपौत्त्रैश्च सप्तद्वीपा वसुन्धरा । प्रियव्रतस्य पुत्त्रैस्तु भुक्ता स्वायम्भुवेऽन्तरे ॥ एष स्वायम्भुवः सर्गः कथितस्ते द्बिजोत्तम । पूर्ब्बमन्वन्तरेशस्य किमन्यत् कथयामि ते ॥” इति मार्कण्डेयपुराणे स्वायम्भुवे मन्वन्तरे भुवन- कोषः ॥ * ॥
अन्यच्च । सूत उवाच । “केतुमाले नरोः कालाः सर्व्वे पनसभोजनाः । स्त्रियश्चोत्पलपत्राश्च जीवन्ति च वर्पायुतम् ॥ भद्राश्व पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः । दशवर्षसहस्राणि जीवन्ति वायुभोजनाः ॥ * ॥
रम्यके पुरुषा नार्य्यो रमन्त्यारजतप्रभाः । दशवर्षसहस्राणि शतानि दशपञ्च च ॥ जीवन्ति तत्र सत्त्वस्था न्यग्रोधफलभोजनाः । हिरण्मये हिरण्याभाः सर्व्वे च लकुचाशनाः ॥ एकादशसहस्राणि शतानि दशपञ्च च । जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ सर्व्वे मिथुनजाताश्च नित्यं सुखनिषेविणः । चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः । दशवर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥ यजन्ति सततं देवं चतुर्मूर्त्तिं चतुर्मुखम् । ध्याने मनः समाधाय सदा वा भक्तिसंयुताः ॥ * तथा च हरिवर्षेऽपि महारजतसन्निभाः । दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥ तत्र नारायणं देवं विश्वयोनिं सनातनम् । उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्म्मलम् । विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ चतुर्द्वारमनौपम्यं चतुस्तोरणसंयुतम् । प्राकारैर्दशभिर्युक्तं सुगन्धञ्च समुद्गमम् ॥ स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् । स्वर्णस्तम्भसहस्रैश्च सर्व्वतः समलङ्कृतम् ॥ हेमसोपानसंयुक्तं नानारत्नोपशोभितम् । दिव्यसिं हासनोपेतं सर्व्वशोभासमन्वितम् ॥ सरोभिः स्वादुपाणीयैर्नदीभिश्चोपशोभितम् । नारायणपरैः शुद्धैर्व्वेदाध्ययनतत्परैः ॥ योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् । स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ तत्र देवादिदेवस्य विष्णोरमिततेजसः । राजानः सर्व्वकालस्तु महिमानं प्रकुर्व्वते ॥ गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः । स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ इलावृते पद्मवर्णा जम्बूफलरसाशिनः ॥ त्रयोदशसहस्राणि वर्षाणां व स्थिरायुषः ॥ भारते तु स्त्रियः पुंसो नानावर्णः प्रकीर्त्तिताः । नानादेवार्च्चने युक्ता नानाकर्म्माणि कुर्व्वते ॥ परमायुर्मतं तेषां शतं वर्षाणि सुव्रताः । नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ॥ कर्म्मभूमिरियं विप्रा नराणामाधिकारिणाम् । महेन्द्रो मलयः सह्यः शुद्धिमानृक्षपर्व्वतः ॥ विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः । इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ॥ नागद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्बीपश्च सागरावृतः ॥ योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरः । पूर्व्वे किरातास्तस्यान्ते पश्चिमे यवनास्तथा ॥ ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्रास्तथैव च । इज्यायुधबणिज्याभिर्व्वर्त्तयन्त्यत्र मानवाः ॥ स्रवन्ते पावना नद्यः पर्व्वतेभ्यो विनिःसृताः । शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा ॥ इरातती वितस्ता च विपाशा देविका कुहूः । गोमती धूतपापा च बाहुदा च दृशद्वती ॥ कौशिकी लोहिता चैव हिमवत्पादनिःसृताः । वेदस्मृतिर्व्वेदमती व्रतघ्नी त्रिविदा तथा ॥ पर्णासा वन्दना चैव सदानीरा मनोरमा । चर्म्मण्वती तथानूपा विदिशा वेदवत्यपि ॥ शिश्रुः शशिन्यपि तथा पारिपात्राश्रयास्तथा । नर्म्मदा सुरसा शाना दशार्णा च महानदी ॥ मन्दाकिनी चित्रकूटा तामसा च पिशाचिका । चित्रोत्पला विपाशा च माञ्जना बाहुवाहिनी ॥ हिमवत्पादजा नद्यः सर्व्वपापहरा नृणाम् । तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी ॥ वेन्वा वैतरणी चैव बलाका च कुमुद्वती । तोया चैव महागौरी दुर्गा चान्तःशिला तथा ॥ विन्ध्यपादप्रसूतास्तु नद्यः पुण्यजलाः शुभाः । ऋषिकुल्या त्रिसामा च मन्दगा मन्दगामिनी ॥ रूपा पानाशिनी चैव ऋषिका वंशकारिणी । शुक्तिमत्पादसंजाताः सर्व्वपापहरा नृणाम् ॥ आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः । सर्व्वाः पापहराः पुण्याः स्नानदानादिकर्म्मसु ॥ तास्विमे कुरुपञ्चाला मध्यदेशादयो जनाः । पूर्ब्बे देशादिकाश्चैव कामरूपनिवासिनः ॥ औड्राः कलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः । तथा परान्ताः सौराष्ट्राः शूद्राभीरास्तथा- र्व्वुदाः ॥ मानका मालवाश्चैव पारिपात्रनिवासिनः । सौवीराः सैन्धवा हूणाः शाल्लाः कन्यनिवा- सिनः ॥ मद्रा वासास्तथाम्बष्ठाः पारसीकास्तथैव च । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् । कृतं त्रेता द्वापरश्च कलिश्चान्यत्र न क्वचित् ॥ यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः । न तेषु शोको नायासो नोद्वेगः क्षुद्भयन्न च ॥ सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः । रमन्ते विविधैर्भावैः सर्व्वार्श्च स्थिरयौवनाः ॥” इति कूर्म्मपुराणे ४४ अध्यायः ॥ अपरं वामनपुराणे १३ अध्याये द्रष्टव्यम् ॥ * ॥
प्रभवादिषष्टिवर्षाणि वत्सरशब्दे द्रष्टव्यानि । तत्र षष्ठिधा पूज्या देव्यो यथा, —
“संवत्सरप्रमाणेन देव्यः कृत्वा पुरो हि ताः । यष्टव्या विधिना तात सर्व्वकामप्रसिद्धिदाः ॥ महाभयविनाशाय महारिपुवधाय च । महाभ्युदयकामाय महासिद्धिफलाय च । पूजयेत् तद्यजेद्देवीं षष्टिधा परमेश्वरीम् ॥ ऋतुनागकृता पीडा यक्षरक्षोग्रहोद्भवा । संवत्सरमहादोषजन्मर्क्षमुपमर्द्दना ॥ केतूल्काशनिराहूतो भौमार्कसितभानुजाः । शमयेद्यजमानस्य देवीहोमरतस्य च ॥ मण्डलादिविधानेन महास्नानाभिषेचनैः । चन्द्रसंपूर्ण पुष्यर्कफलरत्नाभिपूजनैः ॥ मङ्गला मङ्गलं धत्ते विधिना पूजिता मुने ! ॥ उत्पातक्षोभनिर्घातविकृतानां शमाय च । कथयामि महाप्राज्ञ शृणुष्वैकमनाधुना ॥ * ॥
मङ्गला विजया भद्रा शिवा शान्तिर्धृतिः क्षमा । ऋद्धिर्वृद्ध्युन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥ दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरीति प्रकीर्त्तिता । विंशताश्चोत्तमा देव्यः सत्त्वभावव्यवस्थिताः ॥ प्रथमं संस्थिता वत्स ! सर्व्वसिद्धिप्रदायिकाः । २० ब्राह्मी जयावती शाक्री अजिता चापरा- जिता ॥ जरन्ती मानसी माया दितिः श्वेता विमो- हनी । शरण्या कौशिकी गौरी विमला ललितालसा ॥ अरुन्धती क्रिया दुर्गा राजसा इति वायुना । मध्यभागे स्थिता देव्यो युगानामशुभापहा ॥ २० ॥ काली रौद्री कपाली च घण्टाकर्णा मयूरिकी । बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥ माहेश्वरी कुमारी च वैष्णवी सुरपूजिताः । वैवस्वती तथा घोरा कराली विकटादिभिः ॥ चर्च्चिका चेति धातुस्था देव्यस्त्रैलोक्यविश्रुताः । पूजितव्या मुनिश्रेष्ठ ! सर्व्वकामप्रसाधिकाः ॥ २० ॥ त्रिदशामुरगन्धर्व्वयक्षरक्षोगणैर्नुताः । भावकालाश्रयाः कार्य्यद्रव्यरूपफलप्रदाः ॥ प्रत्येकशः समस्ता वा कर्त्तव्या मुनिसत्तम ! । अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥” इति देवीपुराणे संवत्सरदेवताविंशतिविधि- नामाध्यायः ॥ (वर्षके, त्रि । यथा, भागवते । ३ । २१ । २० । “नमाम्यभीक्ष्णं नमनीयपादं सरोजमल्पीयसि कामवर्षम् ॥”)