वाचस्पत्यम्
वर्षिष्ठ || त्रि० अतिशयेन वृद्धः इष्ठन् वर्षादेशः । अतिशयवृद्धे
शब्दकल्पद्रुमः
वर्षिष्ठः || त्रि अतिशयवृद्धः । अयमनयोरतिशयेन वृद्धः इत्यर्थे वृद्धस्थाने वर्षादेशे इष्ठप्रत्ययेन निष्पन्नः ॥