वाचस्पत्यम्
वर्षीयस् || त्रि० अतिशयेन वृद्धः वृद्ध + इयसुन् वर्षादेशः । अतिवृद्धे अमरः स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वर्षीयान् || [स्] त्रि, (अयमनयोरतिशयेन वृद्धः । वृद्ध + इयसुन् । वर्षादेशः ।)
अतिवृद्धः । तत्- पर्य्यायः । दशमी २ ज्यायान् ३ । इत्यमरः । ३ । २ । २३४ ॥ (यथा, —
“आषोडशाद् भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः ॥)