वाचस्पत्यम्
वर्हिस् || स्त्री वृहि—इसुन् नि० नलोपश्च । १ वह्नौ मेदि० “वर्हिषि रजतं न देयम्” श्रुतिः । २ ग्रन्थिपर्णे ३ चित्रके च (चिते) अमरः । ३ कुशे पु० न० “वर्हिर्देवसदनम्” श्रुतिः वर्ह—दीप्तौ इसुन् । ४ दीप्तियुक्ते त्रि० ।
शब्दकल्पद्रुमः
व(ब)र्हिः || [स्], पुं, (वृंहति वर्द्धते इति । वृहि वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० । इति इसिः नलोपश्च ।)
अग्निः । इति मेदिनी । से, ३६ ॥ दीप्तिः । इत्युणादिकोषः ॥ यज्ञः । इति हेम- चन्द्रः ॥ (यथा, ऋग्वेदे । ७ । ७५ । ८ । “नूनो गोमद्वीरवद्वेहि रत्न- मुषो अश्वावत् पुरुभोजो अस्मे । मानो बर्हिः पुरुषता निदेक- र्यूयं पातस्वस्तिभिः सदा नः ॥” “नोऽस्माकं बर्हिर्यज्ञम् ।” इति तद्भाष्ये सायणः ॥)
चित्रकम् । इत्यमरः ॥ (बृहद्राजस्य पुत्त्रः । यथा, भागवते । ९ । १२ । १३ । “बृहद्राजस्तु तस्यापि वर्हिस्तस्मात् कृत- ञ्जयः ॥”)
शब्दकल्पद्रुमः
व(ब)र्हिः || [स्], पुं, क्ली, (वृंहति वर्द्धते इति । वृहि वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० । इति इसिः नलोपश्च ।)
कुशः । इति मेदिनी । से, ६३ ॥ (यथा, कुमारे । १ । ६१ । “अवचितवलिपुष्पा वेदिसन्मार्गदक्षा नियमविधिजलानां वर्हिषाञ्चोपनेत्री ॥”)
शब्दकल्पद्रुमः
वर्हिः || [स्] क्ली, (वृंहतीति । वृहि वृद्धौ + इसिः नलोपश्च ।)
ग्रन्थिपर्णम् । इति शब्दरत्ना- वली ॥