संस्कृत-शब्दकोशः

वर्हिस् वलक्ष

वल

वाचस्पत्यम्

वल ||‍ न० वल्यतेऽनेन वल—क । सैन्ये रायमु० बलशब्दार्थे च ।


वाचस्पत्यम्

वल ||‍ संवरणे भ्वा० आत्म० सक० सेट् । वलते अवलिष्ट । ववलतुः वा घटा० ।


शब्दकल्पद्रुमः

वलं is an alternate of बलं. ब(व)लं || क्ली (बलते विपक्षान् हन्तीति । बल + पचा- द्यच् ।)
सैन्यम् । (यथा, भगवद्गीतायाम् । १ । १० । “अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्य्याप्तन्त्विदमेतेषां बलं भीमाभिरक्षितम् ॥”)
स्थौल्यम् । सामर्थ्यम् । अत्र शेषस्य पर्य्यायः । द्रविणम् २ तरः ३ सहः ४ शौर्य्यम् ५ स्थाम ६ शुष्मम् ७ शक्तिः ८ पराक्रमः ९ प्राणः १० । इत्यमरः । २ । ८ । १०२ ॥ महः ११ शूष्म १२ । इति शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति जटाधरः ॥ तद्वैदिकपर्य्यायः । ओजः १ पा(वा)जः २ शवः ३ तरः ४ तवः ५ त्वक्षः ६ शर्द्धः ७ बाधः ८ नृम्णम् ९ तविषी १० शुष्मम् ११ शुष्णम् १२ शूषम् १३ दक्षः १४ वीळुः १५ च्यौत्नम् १६ सहः १७ यहः १८ वधः १९ वर्गः २० वृजनम् २१ वृक् २२ मज्मना २३ पौंस्यानि २४ धर्णसिः २५ द्रविणम् २६ स्यन्द्रासः २७ शम्बरम् २८ । इत्यष्टाविंशतिर्ब्बलनामानि । इति वेदनि- घण्टौ । २ । ९ ॥ (यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति ॥”)
तत्तु गर्भस्थबालकस्य षष्ठे मासि भवति । इति सुखबोधः ॥ गन्धरसः । रूपम् । इति मेदिनी । ले, ३७ ॥ शुक्रम् । इति हेमचन्द्रः । ३ । २९३ ॥ (यथाह सुश्रुतः । “धातूनां यत्परं तेजस्तत् खल्वोज स्त्रदेव बलमित्युच्यते ॥”)
वपुः । इति जटाधरः ॥ (यथा, रामायणे । ७ । १ । ३३ । “कीदृशो वै प्रभावोऽस्य किं बलं कः परा- क्रमः ॥”)
पल्लवम् । इति शब्दरत्नावली ॥ रक्तः । इति शब्दचन्द्रिका ॥ (बलमस्यास्तीति । बल + अर्श आद्यच् ।)
बलयुक्ते, त्रि । इति मेदिनी ॥ * ॥
सद्योबलकराणि बलहराणि च यथा, —
“सद्योबलकरास्त्रीणि बालाभ्यङ्गं सुभोजनम् । सद्योबलहरास्त्रीणि अध्वानं मैथुनं ज्वरः ॥” बलकारकौषधं यथा, गारुडे । ११५ । १९६ अः । “शिवामलकचूर्णं वै मधुना उदकेन वा । बलानि कुर्य्यान्नासाया प्रत्युषे भक्षणं शिव ! ॥” पारिभाषिकबलानि । यथा, —
“विद्याभिजनमित्राणि वृद्धिसत्त्वधनानि च । तपःसहायवीर्य्याणि दैवञ्च दशमं बलम् ॥” इति महाभारते आपद्धर्म्मः ॥ अपि च । “अबलस्य बलं राजा बालस्य रुदितं बलम् । बलं मूर्खस्य मौनन्तु तस्करस्यानृतं बलम् ॥” * ॥
अपि च । “क्षत्त्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् । भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ॥ हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः । हिंसा बलं खलानाञ्च तपस्या च तपस्विनाम् ॥ बलं वेशश्च वेश्यानां योषितां यौवनं बलम् । बलं प्रतापो भूपानां बालानां रुदितं बलम् ॥ सतां सत्यं बलं मिथ्या बलमेवासतां सदा । अनुगानामनुगमः स्वल्पस्वानाञ्च सञ्चयः ॥ विद्या बलं पण्डितानां बाणिज्यं बणिजां बलम् । शश्वत्सुकर्म्मशीलानां गाम्भीर्य्यं साहसं बलम् ॥ धनं बलञ्च धनिनां शुचीनाञ्च विशेषतः । बलं विवेकः शान्तानां गुणिनां बलमेकता ॥ गुणो बलञ्च गुणिनां चौराणाञ्चौर्य्यमेव च । विप्रवाक्यञ्च कापट्यमधर्म्ममृणिनां बलम् ॥ हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् । वरशापौ सुराणाञ्च शिष्याणां गुरुसेवनम् ॥ बलं धर्म्मो गृहस्थानां भृत्यानां राजसेवनम् । बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ॥ यतीनाञ्च सदाचारो न्यासः सन्न्यासिनां बलम् । पापं बलं पातकिनां सुभक्तानां हरिर्बलम् ॥ पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् । फलं बलञ्च वृक्षाणां जलधीनां जलं बलम् ॥ जलं बलञ्च शस्यानां मत्स्यानाञ्च जलं बलम् । शान्तिर्बलञ्च भूपानां विप्राणाञ्च विशेषतः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः ॥


शब्दकल्पद्रुमः

वल || मि ङ संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
मि, वलयति वाल- यति । ङ, वलते धनं लोकः संवृणोतीत्यर्थः । इति दुर्गादासः ॥



Correction: