वाचस्पत्यम्
वलक्ष || पु० वल—क्विप् अक्ष—अच् कर्म० । १ धवले वर्णे २ तद्वति त्रि० अमरः ।
शब्दकल्पद्रुमः
वलक्षः is an alternate of बलक्षः. ब(व)लक्षः || पुं, धवलः । इत्यमरः । १ । ५ । १३ ॥ बलतेः क्विप् बलं अक्षत्यस्मिन् घञ् बलक्ष इति कष संयोगवान् । इति रायमुकुटः ॥ अवलक्षते इति वलक्षः घञ् अकारलोपः । इति स्वाम्या- दयः ॥ एतन्मते अन्तःस्थवकारादिः ॥ (यथा, माघे । ६ । ३४ । “द्विरददन्तबलक्षमलक्ष्यत स्फु रितभृङ्गमृगच्छविकेतकम् ॥”)