संस्कृत-शब्दकोशः

वलक्ष वलभि

वलन

वाचस्पत्यम्

वलन ||‍ न० वल—भावे ल्युट् । १ सम्बरणे सि० शि० उक्ते दृक्व- र्मादिसंस्काराङ्गे २ कदम्बयाम्योत्तरयोरन्तर तत्स्वरू- पादिकं तत्रोक्तं प्रदर्श्यते “तुलाजाद्योर्हि यंपाते विषुवत्क्रान्तिवृत्तयोः । स्यातां याम्योत्तरे भिन्ने परक्रान्त्यन्तरे च ते । आयनं तलनं तत्र जिनांशज्यासमं ततः । एकैवायनसंधौ तु तयोः स्याद्दक्षिणोत्तरा । एकैव तद्वशात् प्राची तत्र नो वलनं ततः । तदन्तरेऽनुपातेन स्वेटकोटिक्रमज्यका । जिन- ज्याघ्नी द्युजीवाप्तायनदिग्वलनं भवेत् । एवमेव हि संपाते विषुवत्समवृत्तयोः । उन्मण्डलं भवेत् तत्र विषु- वद्दक्षिणोत्तरा । क्षितिजं समवृत्तस्य पलज्या च तदन्त- रम् । क्षितिजेऽक्षज्यया तुल्यमक्षजं वलनं ततः । तयोरेकैव याम्योदङ्न मध्ये वलनं ततः । नतक्रम- ज्यया माध्यमन्तरे त्वनुपाततः । नतं खाङ्काहतं भक्तं द्युदलेनाप्तभागकैः । क्रमज्याक्षज्यया क्षुण्णा द्युज्याभक्ता- क्षजं मवेत् । प्राक् सौम्यं पश्चिमे याम्य” तच्चापैक्यान्त- रात् स्फुटम् । एवमेव च संपातो यः क्रान्विममवृ- त्तयोः । परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम् । अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्ते त्रिभेऽन्तरे । तयो- र्याम्योत्तरैकत्वात् तत्र नो बलनं स्फुटम् । न स्पष्ट- बलनाभावस्तत्र स्यादुत्क्रमज्यया । क्रमज्यया ततः कार्यं दाट्यार्थं कथ्यते पुनः । सर्वतः क्रान्तिसृत्राणां ध्रुवे योगो भवेद्यतः । विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा । सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे । यागः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् । तत्राप- मण्डलप्राच्या याम्या सौम्या च दिक् सदा । कदम्ब- भ्रमवृत्तं च बध्नीयात् परितो ध्रुवात् । गोले तु जिन- तुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी । सर्वतः समवृत्ताच्च याम्योदक्कुजसंगमे । तत्तिर्य्यग्गतसूत्राणां योगः स समसंज्ञकः । समध्रुवकदम्बानामुपरि द्यचरान्नयेत् । सूत्राणि वृत्तरूपाणि वलनानि तदन्तरे । अक्षजं वलनं मध्ये स्यात् समध्रुवसूत्रयोः । कदम्बध्रुवसूत्रान्तरायनं च त्रिभे ग्रहात् । कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत् । अथ वा परितः खेटात् खाङ्कभागान्तरे न्यसेत् । त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयोः । मध्ये- ऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयोः । अन्तरं चायनं क्रान्तिसमवृत्तान्तरे स्थुटम् । तत्रापमण्डलं प्राची तस्या याम्योत्तरः शरः । वलनानयने क्षेपः क्षिप्तो यैस्ते कुबुद्धयः । नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे समम् । आयनं बलनं तस्मान्नायनादौ प्रजायते । ततो भ्रमति गोले स मकरादिर्यथा यथा । तथा तथा भ्रमत्येम कदम्बो निजमण्डले । कुम्भादावथ मीनादौ याम्यीदग्वल- यस्थिते । जायते वलनं तद्यत् सौम्यसूत्रकदम्बयोः । अन्तरं शिञ्जिनीरूपं कदम्बभ्रममण्डले । अयनाद्गत- कालांशक्रमक्रान्तिज्यका हि सा । उत्क्रमज्या यतो वाणः शिञ्जिनी तु क्रमज्यका । सत्रिभार्कात् क्रम- क्रान्तिज्यातो बलनमायनम् । यैरुक्तमुत्क्रमक्रान्त्या भ्रान्त्या तैर्नाशितं हि तत् । युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्यया । परोक्तेरन्यथा ब्रूयाद्यः परान् न प्रदू- षयेत् । तस्यैव दूषणं तद्धि न दोषोऽतोऽन्यढूषणे । उत्क्रमज्यानिरासोऽयमन्यथा वाथ कथ्यते । जिनांशै- र्जिनवृत्ताख्यं कदम्बात् परितो न्यसेत् । क्रान्तियाम्यो- त्तरं वृत्तं कदम्बद्वयकीलयोः । प्रोतं कृत्वा चलं न्यस्तं द्वन्द्वःन्ते स्याद् ध्रुवोपरि । द्वन्द्वान्ताच्चाल्यतेऽंशैर्यैस्तैरेव चलति ध्रुवात् । जिनवृत्ते तदंशानां तत्र ज्या क्रान्ति- शिञ्जिनी । आयनं सैव वलनं द्युन्याग्रे जायते ग्रहात् । ग्रहध्रुवान्तरे यस्माद्द्युज्या चापांशकाः सदा । त्रिज्या- वृत्ते यतो देयं तत्रातः परिणाम्यते । एवमक्षांशकैर्वृत्तं समाख्यात् परितो न्यसेत् । समकीलकयोः प्रातं तथा याम्योत्तरं चलम् । तत्तत्स्वेटोपरि न्यस्तं यैरंशैः खार्धतो नतम् । समवृत्तेऽक्षवृत्ते च तैरेव स्यान्नतं ध्रुवात् । समवृत्तनतांशज्याक्षज्यापरिणताक्षजम् । द्युज्याग्रे वलनं प्राग्वत् त्रिज्याग्रे परिणाम्यते । उप- पत्त्यानया सम्यक् समवृत्तनतांशजम् । वलनं स्यात् तथा वक्ष्ये स्वाहोरात्रनतादपि । अग्रानृतलयोर्योगः सस- दिक्त्वेऽन्यथान्तरम् । तत्त्रिज्यावर्गविश्लेषपदभक्ताक्षशि- ञ्जिनी । नतासुदार्ज्यया क्षुण्णा बलनं पलजं स्फुटम् । नतं खाङ्काहतं भक्तं द्युदलेनाप्तभागकैः । क्रमज्याक्ष- ज्यया क्षुण्णा स्थूलं वा द्युज्यया हृता । द्युज्यावृत्ताप- वृत्तैक्ये न्यसेद्वा रविमण्डलम् । बिम्बाग्रे वलनं तद् यद- न्तरं वृत्तयास्तयोः । बिम्बान्तबिम्बमध्योत्थकान्तिमौर्व्यो- स्तदनन्तरम् । अर्कदोर्भोम्यखण्डघ्नं बिम्बार्द्धं तत्त्वददस्र हृत् । जिनज्याघ्नं त्रिभज्याप्तमेवं स्यादन्तरं हि तत् । विम्बार्धहृत् त्रिभज्याघ्नमेवं त्रिज्या नतं भवेत् । गुण- हारकबिम्बार्धत्रिज्यानाशे कृते सति । भोग्यखण्डं जिनांशज्यागुणं तत्त्वाश्विमाजितम् । सत्रिभार्कात् क्रमक्रान्तेस्तत् तुल्यं जायतेऽथ वा । क्रमक्रान्तेरिदं वीक्ष्य भ्रान्तिं त्यजत बालिशाः! । नामितं छत्रवद्बिम्बं तिर्यक् क्रान्तिस्तु सा समा । अत्र द्युज्यानुपातो यस्त- त्तिर्यक्करणाय सः” मू० । “अथ वलनेषु दृक्कर्मणि चोत्क्रम- ज्यानिराकरणाय मूलसूत्रेऽपि बहूक्तं तथापि किञ्चि- दिहोच्यते । विषुवद्वृत्तं समवृत्तं प्रकल्प्य दक्षिणो- त्तरवृत्तस्थे ग्रहे आयनवलनस्योपपत्तिप्रतीत्यर्धं पृथग- दर्शयेत् । अपमण्डलप्राच्यपराया एकः कदम्बा याम्या अन्यः सौम्या दिक् । एवं विषुवद्वृत्तप्राच्यपराया ध्रुवौ । यदा मकरादिर्याम्योत्तरवृत्ते तदैव कदम्बोऽपि । अतो विषुवत्क्रान्तिवृत्तयोरेकैव याम्योदक् । तया दक्षि- णोत्तरवृत्तस्य कुम्भादेश्च मध्ये स्वाहोरात्रवृत्ते पञ्चगुणा- ङ्कचन्द्रा १९३५ असवो वर्त्तन्ते । ते पष्ट्युद्धृताः का- लांशाः स्युः ३२ । १५ । अथ कुम्भादिर्यावद्दक्षणोत्तर- वृत्तं नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते तावद्भिरेव कालांशै ३२ । १५ र्दक्षिणोत्तरवृत्तसंपातात् प्रत्यगवलम्बते । कदम्बयाम्योत्तरसूत्रयोरन्तरं वलनम् । सा च तेषामंशानां कदम्बवृत्ते ज्या । अतः क्रमज्या । उत्क्रमज्या तु वाणरूपा भवति । कदम्बवृत्ते या ज्या सा क्रान्तिज्या । अतस्तेषामंशानां क्रमक्रान्तिज्या वल- नम् । अथ वैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा द्युज्या- हृता तथापि सैव भवति । अथ वान्यप्रकारेणोत्क्रमज्या- निराकरणं द्युज्यानुपातश्च प्रतिपाद्यते । क्रान्तिवृतेऽ- र्कस्थानेऽर्कविम्बं मुद्रिकाकारं विन्यस्य विम्बपरिधौ यत्र खाहोरात्रवृत्तं लग्नं यत्र च क्रान्तिवृत्तं तयोरन्तरं यद्दक्षिणोत्तरं तत् तत्र विम्बे प्राच्यपरयोर्वलनम् । तच्चार्कक्रान्तेर्विम्बार्धकलायुतस्यार्कस्य क्रान्तेश्चान्तरम् । अतस्तस्यानयनम् । रविदोर्ज्यायां क्रियमाणायां यद्भो- ग्यखण्डं तेन मानार्धकला गुण्याः शरद्विदस्रै २२५ र्भाज्याः । फलं दोर्ज्ययोरन्तरं स्यात् । तत्र तावत् स्फुटभोग्यखण्डज्ञानायागुपातः । यदि त्रिज्यातुल्यायां कोटौ प्रथमं ज्यार्घं शरद्विदस्या भोग्यखण्डं तदाभिम- तायामस्यां किमिति फलं स्फुटं भोग्यखण्डम् । तेन गुणितं विम्बार्धं शरद्विदस्रैर्भाज्यम् । एवं स्थिते शर- द्विदस्वमितयोर्गुणहारयोर्नाशे कृते विम्बार्धस्य कोटिज्या गुणस्त्रिज्या हरः । फलं दोर्ज्ययोरन्तरम् । ततः क्रान्त्यर्थमनुपातः । यदि त्रिज्यया जिनज्या लभ्यते तदानेन दोर्ज्यान्तरेण किमिति । फलं क्रान्त्यन्तरम् । तद्बिम्बव्यासार्धवृत्ते वलनम् । अथान्योऽनुपातः । यदि बिम्बव्यासार्धवृत्ते एतावद्वलनं तदा त्रिज्याव्यासार्धवृत्ते किमिति । अत्र त्रिज्यातुल्ययोर्गुणहरयोस्तथा विम्बा- र्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनांशज्या गुणस्त्रिज्या हरः । फलं कोटिक्रमक्रान्तिज्या । तत् त्रिज्यावृत्ते बलनम । एवं विषुवद्वृत्तस्थित एव ग्रहे । यतो भूमध्यात् खखस्तिकस्थविम्बमध्यं प्रति यत् सूत्रं नीयते तत् त्रिज्यासूत्रं दण्डवत् । तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममेव । यत् तत्परितस्त्रिज्यावृत्तं यत्र च बलनज्या देया तदपि भूसममेव स्थितम् । अत- स्तत्र यथागतमेव वलनम् । यदा किल मेषान्ते ग्रह- स्तदा तत्क्रान्त्या खखस्तिकादुत्तरे नतं बिम्बं स्यात् । त्रिज्यासूत्रं तदा कर्णरूपम् । बिम्बमध्याच्च लम्बसूत्रं ध्रुवयष्ट्यन्तं द्युज्या । सा तत्र कोठिः । क्रान्तिज्या भुजः । यथा किञ्चित् कर्णस्थित्या धृते दण्डे छत्रमपि तत्स्पर्धिन्यां दिशि कर्णरूपं भवति । तत्र वलनज्ययापि कर्णरूपिण्या भवितव्यम् । यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पर्धि तत् कोढिरूपं जातम् । तस्य कर्ण- करणायानुपातः । यदि द्युज्याकोट्या त्रिज्या कर्णस्तदा- ऽनया किमिति । पूर्बं कोटिज्याया जिनज्या गुण- स्त्रिज्या हरः । इदानीं त्रिज्या गुणो द्युज्या हरः । अत्रापि त्रिज्यातुल्ययोर्गुणहरयोर्नाशे कृते कोटिज्या जिनज्यागुणा द्युज्यया भक्ता वलनं स्यादित्युपपन्नम् । युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्ययेति । यथायनवल- ज्ञानार्थं ध्रुवात् परितो जिनभागैः कदम्बभ्रमवृत्तं निबद्धं तथा याम्योत्तरक्षितिजयोर्यः संपातः स सम- संज्ञकः । तस्मादप्यक्षांशैः परितोऽक्षवलनज्ञानार्थं वृत्तं बध्नीयात् । तत् किलाक्षवलयसंज्ञम् । तदपि भांशै- रङ्क्यम् । तत्राक्षवलनोपपत्तिर्दर्शनीया । तद्यथा मध्यह्नेऽर्कात् समचिह्नं प्रति नीयमानं वृत्ताकारं सूत्रं ध्रुवचिह्नलग्नं याति । अतस्तत्र विषुवत्समवृत्त- योरेकैव याम्योत्तरा वलनाभाव इत्यर्थः । अथ यदि देनार्धान्नतं सूर्य्यं कृत्वा समचिह्नात् सूर्य्यं प्रति नीयमानं सूत्रं यत्र सममण्डले लगति तत्खखस्तिक- योर्मध्ये यावन्तोऽंशास्तावन्त एवाक्षवृत्ते समसूत्रध्रुवयो- र्मध्ये भवन्ति । यतस्तत्समवृत्तानुकारं बद्धम् । तेषां भागानामक्षबलये यावती क्रमज्या तावदेव सममूत्रध्रुव- योरन्तरम् । अथ क्षितिजस्थेऽर्के क्षितिजमेव सम- सूत्रम् । तत्राक्षवृत्ते च नवतिर्नतांशाः । तेषां ज्याऽक्ष- वलयेऽक्षज्यातुल्या स्यात् । अतः सममण्डलगतेर्नतांशै- र्वलनं साधयितुं युज्यते । ते तु महायासेन ज्ञायन्ते । न तु सुखेन । अतस्तज्ज्ञानार्यं स्थूलोऽनुपातः सुखार्थं कृतः । यदि दिनार्धतुल्येन स्वाहोरात्रनतेन नवतिः सममण्डलनतांशा लभ्यन्ते तदेष्टेन किमिति । लब्ध- नतांशानां या क्रमज्या साऽक्षज्यावृत्ते परिणाम्यते । वदि त्रिज्यावृत्ते एतावती ज्या तदाक्षज्यावृत्ते किय- तीति । लब्धं किल वलनज्या स्यात् । परं सा द्युज्या- ग्रे, न त्रिज्याग्रे । यतः समसूत्रध्रुवयोरन्तरं तत् । ग्रहध्रुवयोर्मध्ये द्युज्याचापांशा एव वर्त्तन्ते । यदि द्युज्यावृत्त एतावती तदा त्रिज्यावृत्ते कियतीति । एवं सति पूर्वत्रैराशिके त्रिज्या हरः । इदानीं गुणः । तुल्यत्वात् तयोर्नाशे कृते नतांशज्याया अक्षज्या गुणो द्युज्या हरः । फलं स्थूला वलनज्या स्यात् । अथ सूक्ष्माप्युच्यते । ग्रहणकालोऽर्कस्य शङ्कुः शङ्कु- तणमग्रा च साध्या । अग्राशङ्कुतलयोः समदिशीरैक्य- मन्यधान्तरं स किल बाहुः पूर्वं प्रतिपादित एव । ग्रहसमवृत्तयोरन्तरं ज्यारूपं दक्षिणोत्तरं बाहुतुल्यं स्यात् । यथा विषुवद्वृत्तादुत्तरतो दक्षिणतो वा क्रान्तिज्यान्तरे द्युज्यावृत्तं तथा समवृत्तादपि बाहु- वशादुत्तरतो दक्षिणतो वा बाहुतुल्येऽन्तरे उपवृत्तं कल्प्यम् । तद्रपि भांशैरङ्क्यम् । बाहुवर्गोनत्रिज्या- वर्गस्य पदं तस्मिन् वृत्ते द्युज्यापद्व्यासार्धम् । अथ द्युज्यावृत्तोपवृत्तयोर्यौ प्र क्पश्चात्संपातौ तयोर्जीवावद् यत् सूत्रं निबध्यते तस्यार्धमुपवृत्ते नतांशानां ज्या । सैवाहोरात्रवृत्तनतांशानां भुजज्या । अथ तदानय- नम् । नतासूनां या भुजजीवा सा द्युज्यावृत्ते परि- णाम्यते । यदि त्रिज्यावृत्ते एतावती तदा द्युज्यावृत्ते कियतीति । एवमुपवृत्तनतांशज्या भवति । ततो यद्युप- वृत्तव्यासार्धे एतावती तदाक्षज्याव्यासार्धे कियतीति । ततो द्युज्याग्रे एतावती वलनज्या तदा त्रिज्याग्रे कियतीति । अत्र प्रथमेऽनुपाते त्रिज्या हरो द्युज्या गुणः । तृतीयेऽनुपाते त्रिज्या गुणो द्युज्या हरोऽत- स्तुल्यत्वात् तयोर्नाशे कृते नतासूनां भुजज्याक्षजीवया गुणितोपवृत्तव्यासार्धेन भक्ता सा सूक्ष्मा वलनज्या स्वात् । अत उक्तमग्रानृतलयोर्योग इत्यादि । अथ दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २० । ३८ तत्र वृषभान्तस्थोऽर्को दिनार्धे खखस्तिके भवति । तदा क्रान्तिवृत्तं दृङ्मण्डलाकारं स्यात् । सत्रिगृहोऽर्को राशिपञ्चकं सिंहान्तः । स च तदा क्षितिजे वर्त्तते । तत् प्राक्परयोरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते । सा च सिंहान्तस्याग्रा । तत् कथं सत्रिगृहार्कोत्क्रम- क्रान्तिर्वलनम् । अतोऽसत् । अस्मदानयनं विना नेद- मग्रारूप वलनमुत्पद्यत इत्यर्थः । अथान्यो महान् दृष्टान्तः । यत्र देशे षट्वष्टिभागाः ६६ अक्षः । तत्र मेषादौ क्षितिजस्थे सर्वेऽपि राशयः समकालमेव क्षितिजस्था भवन्ति । तदा क्रान्तिवृत्तमेव क्षितिज भवतीत्यर्थः । तत्र मेषादौ वृषभादौ मिथुनादौ वा स्थिते रवौ परमं त्रिज्यातुल्यमेव स्फुटं वलतं स्यात् । यतः क्रान्तिवृत्तप्राच्युत्तरा जाता । तथा विक्षेपाभावे सति तदा रवेर्दक्षिणस्यां दिशि स्पशः । चन्द्रस्वोत्तर- स्यामित्यर्थः । एतदुक्तं भवति । तत्र देशे तस्मिन् काले तस्य त्रिज्यातुल्यस्य वलनस्यान्यथानुपपत्त्यास्मदीयमेव वलनानयनं समीणीनम् । तत्र देशेऽक्षज्या ३१४० । मेषादिगे रवौ द्युज्या १४३८ । चरज्यासवः० । क्षितिजस्थेऽर्के नतघटिकाः १५ । आयनवलनचापांशाः २४ । आक्षवलनचापांशाः ६६ । स्फुटवलनस्य चा- पांशाः ९० । वृषादिगे रवौ द्युज्या ३३६६ । चरज्या- सवः १६७० । नतघटिकाः १९ । ३८ । आयनवलन- चापाशाः २१ । ४ । अक्षजस्य ६८ । ५६ । स्फुटवल- नस्य चापांशाः ९० । मिथुनादिगे द्युज्या १२१८ । चरासवः ३४६५ । नतघटिकाः २४ । ३७ । आयन- वलनांशाः २१ । ३२ । अक्षजस्य ७७ । २८ । स्फुटस्य ९० । एवं सर्वत्र ।”



Correction: