संस्कृत-शब्दकोशः

वलभि वलय

वलभी

वाचस्पत्यम्

वलभी is an alternate of वलभि. वलभि(भी) ||‍ स्त्री वल्यते आच्छाद्यते वल—अभि वा ङीप् । वडभीशब्दार्थे गोपानस्याम् अमरटी० ।


शब्दकल्पद्रुमः

वलभी || स्त्री (वलभि + कृदिकारादिति वा ङीष् ।)
वडभी । इति शब्दरत्ना- वली अमरटीका च ॥ (यथा, कथासरित्- सागरे । ८७ । १२ । “हर्म्यप्रासादवलभीष्वन्विष्यन् सोऽभ्रमन्निशि ॥” पुरीविशेषः । यथा, भट्टिः । २३ । ३५ । “काव्यमिदं विहितं मया वलभ्यां श्रीधरसेननरेन्द्रपालितायाम् । कीर्त्तिरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम् ॥”)



Correction: